________________ 13. 18. 38] अनुशासनपर्व [ 13. 18. 56 गालव उवाच। विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः / भनवीन्मां ततो माता दुःखिता रुदती भृशम् // 38 कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् / न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ // 39 श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने / नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् // 40 पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः / भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये // 41 अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर / अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् // 42 उपस्पृश्य गृहीत्वेमं कृशांश्च शरणाद्गुरून् / तान्विसृज्य च मां प्राह पिता सानाविलेक्षणः॥४३ प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव / दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः / / 44 उवाच / पतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः / प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः / / ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः / युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः // 46 आदित्यचन्द्रावनिलानलौ च ___ द्यौर्भूमिरापो वसवोऽथ विश्वे / धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणो वित्तगोपः // 47 ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः / सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा नियमा ये च केचित् / / 48 स्वाहा वषड्ब्राह्मणाः सौरभेया धर्म चक्रं कालचक्रं चरं च / - 2535 यशो दमो बुद्धिमती स्थितिश्च शुभाशुभं मुनयश्चैव सप्त // 49 अग्र्या बुद्धिर्मनसा दर्शने च ___ स्पर्श सिद्धिः कर्मणां या च सिद्धिः / गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः॥५० आभास्वरा गन्धपा दृष्टिपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः / शुद्धाश्च निर्वाणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च // 51 चिन्तागता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ / सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा पन्नगाश्चारणाश्च // 52 सूक्ष्म स्थूलं मृदु यच्चाप्यसूक्ष्म सुखं दुःखं सुखदुःखान्तरं च / सांख्यं योगं यत्पराणां परं च शर्वाज्जातं विद्धि तत्कीर्तितं मे // 53 तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः / आविश्येमां धरणीं येऽभ्यरक्ष न्पुरातनी तस्य देवस्य सृष्टिम् // 54 विचिन्वन्तं मनसा तोष्टुवीमि किंचित्तत्त्वं प्राणहतो तोऽस्मि / ददातु देवः स वरानिहेष्टा नभिष्टुतो नः प्रभुरव्ययः सदा // 55 इमं स्तवं संनियम्येन्द्रियाणि शुचिर्भूत्वा यः पुरुषः पठेत / अभग्नयोगो नियतोऽब्दमेकं स प्राप्नुयादश्वमेधे फलं यत् // 56 -