________________ 18. 5. 46] महाभारते " [18. 5.54 श्लोकैश्चतुर्भिर्भगवान्पुत्रमध्यापयच्छुकम् // 46 मातापितृसहस्राणि पुत्रदारशतानि च / संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे // 47 हर्षस्थानसहस्राणि भयस्थानशतानि च / दिवसे दिवसे मूढमाविशन्ति न पण्डितम् // 48 ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे। धर्मादर्थश्च कामश्च स किमर्थ न सेव्यते // 49 न जातु कामान भयान्न लोभा द्धर्म त्यजेज्जीवितस्यापि हेतोः / नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः // 50 इमां भारतसावित्री प्रातरुत्थाय यः पठेत् / स भारतफलं प्राप्य परं ब्रह्माधिगच्छति // 51 यथा समुद्रो भगवान्यथा च हिमवान्गिरिः / ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते // 52 महाभारतमाख्यानं यः पठेत्सुसमाहितः / स गच्छेत्परमां सिद्धिमिति मे नास्ति संशयः॥ द्वैपायनोष्टपुटनिःसतमप्रमेयं ___पुण्यं पवित्रमथ पापहरं शिवं च। . यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन // 54 इति श्रीमहाभारते स्वर्गारोहणपर्वणि पञ्चमोऽध्यायः॥५॥ // इति खर्गारोहणपर्व समाप्तम् // // इति श्रीमहाभारतं संपूर्णम्॥ - 2926 -