________________ 16. 47. 22] आश्रमवासिकपर्व [ 15. 47. 21 . ते चापि राजवचनात्पुरुषा ये गताभवन् / संकल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः // 22 माल्यैर्गन्धैश्च विविधैः पूजयित्वा यथाविधि / कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः // 23 समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम् / नारदोऽप्यगमद्राजन्परमर्षिर्यथेप्सितम् // 24 एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः। . वनवासे तदा त्रीणि नगरे दश पञ्च च // 25 हतपुत्रस्य संग्रामे दानानि ददतः सदा / ज्ञातिसंबन्धिमित्राणां भ्रातॄणां स्वजनस्य च // 26 युधिष्ठिरस्तु नृपति तिप्रीतमनास्तदा। धारयामास तद्राज्यं निहतज्ञातिबान्धवः // 27 इति श्रीमहाभारते आश्रमवासिकपर्वणि सप्तचत्वारिंशोऽध्यायः॥४७॥ नारदागमनपर्व समाप्तम् // // समाप्तमाश्रमवासिकं पर्व // -2901