________________ 14. 9.8] आश्वमेधिकपर्व [14. 9. 21 बृहस्पतिं परिदातुं मरुत्ते अयं वै त्वा याजयिता बृहस्पतिस्तथामरं चैव करिष्यतीति / / 8 अग्निरुवाच / अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते। वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः // 9 व्यास उवाच / ततः प्रायाभूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्गन् / कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् // 10 मरुत्त उवाच / आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् / श्रासनं सलिलं पाद्यं गां चोपानय वै मुने / 11 अग्निरुवाच / आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ / इन्द्रेण तु समादिष्टं विद्धि मा दूतमागतम् // 12 मरुत्त उवाच / कञ्चिच्छ्रीमान्देवराजः सुखी च ___ कञ्चिच्चास्मान्प्रीयते धूमकेतो। कञ्चिदेवाश्चास्य वशे यथावत्तद्रूहि त्वं मम कार्येन देव // 13 अग्निरुवाच / शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः। देवाश्च सर्वे वशगास्तस्य राजसंदेशं त्वं शृणु मे देवराज्ञः // 14 / -2759 यदर्थं मां प्राहिणोत्त्वत्सकाशं ___ बृहस्पतिं परिदातुं मरुत्ते / अयं गुरुाजयिता नृप त्वां मत्य सन्तममरं त्वा करोतु // 15 मरुत्त उवाच। संवर्तोऽयं याजयित्वा द्विजो मे बृहस्पतेरञ्जलिरेष तस्य / नासौ देवं याजयित्वा महेन्द्र मत्यं सन्तं याजयन्नद्य शोभेत् // 16 अग्निरुवाच / ये वै लोका देवलोके महान्तः संप्राप्स्यसे तान्देवराजप्रसादात् / त्वां चेदसौ याजयेद्वै बृहस्पति नूनं स्वर्ग त्वं जयेः कीर्तियुक्तः // 17 तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः / ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र // 18 ___ संवर्त उवाच / मास्मानेवं त्वं पुनरागाः कथंचि द्वहस्पतिं परिदातुं मरुत्ते / मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक तन्निबोध // 19 ___ व्यास उवाच / ततो देवानगमद्भूमकेतु___ हादीतो व्यथितोऽश्वत्थपर्णवत् / तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम् // 20 यत्त्वं गतः प्रहितो जातवेदो -