________________ 13. 106. 1] अनुशासनपर्व [13. 106. 23 106 युधिष्ठिर उवाच / दानं बहुविधाकारं शान्ति सत्यमहिंसता / खदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् // 1 पितामहस्य विदितं किमन्यत्र तपोबलात् / / तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि // 2 भीष्म उवाच। तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर / मतं मम तु कौन्तेय तपो नानशनात्परम् / / 3 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / भगीरथस्य संवादं ब्रह्मणश्च महात्मनः / / 4 अतीत्य सुरलोकं च गवां लोकं च भारत / ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः // 5 तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् / कथं भगीरथागास्त्वमिमं देशं दुरासदम् // 6 न हि देवा न गन्धर्वा न मनुष्या भगीरथ / आयान्त्यतप्ततपसः कथं वै त्वमिहागतः // 7 __ भगीरथ उवाच / निःशङ्कमन्नमददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् / ब्राह्मं व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागाम् // 8 दशैकरात्रान्दश पञ्चरात्रा नेकादशैकादशकान्क्रतूंश्च / ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् // 9 यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् / अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् // 10 / दशायुतानि चाश्वानामयुतानि च विंशतिम् / पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः // 11 सुवर्णचन्द्रोडुपधारिणीनां __ कन्योत्तमानामददं स्रग्विणीनाम् / षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन // 12 दशार्बुदान्यददं गोसवेज्या स्वेकैकशो दश गा लोकनाथ / समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन // 13 अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् / गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च // 14 दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह / प्रादा दशगुणं ब्रह्मन्न च तेनाहमागतः // 15 वाजिनां बाह्रिजातानामयुतान्यददं दश / कर्काणां हेममालानां न च तेनाहमागतः // 16 कोटीश्च काश्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् / एकैकस्मिन्क्रतो तेन फलेनाहं न चागतः // 17 वाजिनां श्यामकर्णानां हरितानां पितामह / प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च / / 18 ईषादन्तान्महाकायान्काश्चनस्रग्विभूषितान् / पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च // 19 अलंकृतानां देवेश दिव्यैः कनकभूषणैः / रथानां काञ्चनाङ्गानां सहस्राण्यददं दश / सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः // 20 दक्षिणावयवाः केचिद्वदैर्ये संप्रकीर्तिताः / वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् // 21 शक्रतुल्यप्रभावानामिज्यया विक्रमेण च / सहस्रं निष्ककण्ठानामददं दक्षिणामहम् // 22 विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह / -2669 -