________________ 8. 20. 20] महाभारते [8. 21.8 21 प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् / / पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खः शिलाशितैः // 20 ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत। सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा // 21 तामापतन्ती सहसा धर्मराजः शिलाशितैः / त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः // निपपात ततः साथ हेमदण्डा महाघना / निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा // 23 शाक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते। नवभिनिशितैर्भल्लैर्निजघान युधिष्ठिरम् // 24 सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः / दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः // 25 समाधत्त च तं बाणं धनुष्युग्रं महाबलः / चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी // 26 स तु बाणः समासाद्य तव पुत्रं महारथम् / व्यमोहयत राजानं धरणीं च जगाम ह // 27 ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः। विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् // 28 तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् / धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे / दीप्यमानां महावेगां महोल्का ज्वलितामिव // 29 / रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे। भृशं संविग्नहृदयः पपात च मुमोह च // 30 ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् / प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे // 31 भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् / अभिदुद्राव वेगेन कृतवर्माणमाहवे / एवं तदभवद्युद्धं त्वदीयानां परैः सह // 32 इति श्रीमहाभारते कर्णपर्वणि विंशोऽध्यायः // 20 // संजय उवाच। ततः कणं पुरस्कृत्य त्वदीया युद्धदुर्मदाः / पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम् // 1 द्विरदरथनराश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः / द्विरदरथपदातिसार्थवाहाः परिपतिताभिमुखाः प्रजहिरे ते // 2 शरपरशुवरासिपट्टिशै__रिषुभिरनेकविधैश्च सादिताः / / द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः // 3 कमलदिनकरेन्दुसंनिभैः सितदशनैः सुमुखाक्षिनासिकैः / रुचिरमुकुटकुण्डलैर्मही __पुरुषशिरोभिरवस्तृता बभौ // 4 परिघमुसलशक्तितोमरे नखरभुशुण्डिगदाशतैर्वृताः। . द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाभवन् // 5 प्रहतनररथाश्वकुञ्जरं प्रतिभयदर्शनमुल्बणं तदा। तदहितनिहतं बभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये // 6 अथ तव नरदेव सैनिका स्तव च सुताः सुरसूनुसंनिभाः / अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः // 7 तदतिरुचिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् / - 1682 -