________________ 10. 13. 1] महाभारते [ 10. 14.7 भीमसेनो महाबाहुस्तिष्ठ तिष्ठति चाब्रवीत् // 15 स. दृष्ट्वा भीमधन्वानं प्रगृहीतशरासनम् / भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ। व्यथितात्माभवद्रोणिः प्राप्तं चेदममन्यत // 16 स तदिव्यमदीनात्मा परमास्त्रमचिन्तयत्। जग्राह च स चैषीकां द्रौणिः सव्येन पाणिना। स तामापदमासाद्य दिव्यमस्त्रमुदीरयत् // 17 अमृष्यमाणस्ताञ्शूरान्दिव्यायुधधरान्स्थितान् / अपाण्डवायेति रुषा व्यसृजदारुणं वचः // 18 इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् / सर्वलोकप्रमोहाथ तदस्खं प्रमुमोच ह // 19 ततस्तस्यामिषीकायां पावकः समजायत / प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्तकयमोपमः // 20 इति श्रीमहाभारते सौतिकपर्वणि त्रयोदशोऽध्यायः // 13 // युक्तं परमकाम्बोजैस्तुरगैर्हेममालिभिः // 1 आदित्योदयवर्णस्य धुरं रथवरस्य तु / दक्षिणामवहत्सैन्यः सुग्रीवः सव्यतोऽवहत् / पाणिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ // 2 विश्वकर्मकृता दिव्या नानारत्नविभूषिता। उच्छितेव रथे माया ध्वजयष्टिरदृश्यत // 3 वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् / तस्य सत्यवतः केतुर्भुजगारिरदृश्यत // 4 अन्वारोहद्धृषीकेशः केतुः सर्वधनुष्मताम्। अर्जुनः सत्यकर्मा च कुरुराजो युधिष्ठिरः // 5 अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ / रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् / / 6 तावुपारोप्य दाशार्हः स्पन्दनं लोकपूजितम् / प्रतोदेन जवोपेतान्परमाश्वानचोदयत् // 7 ते हयाः सहसोत्पेतुगृहीत्वा स्यन्दनोत्तमम् / आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च // 8 वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् / प्रादुरासीन्महाशब्दः पक्षिणां पतितामिव / / 9 / / ते समार्छन्नरव्याघ्राः क्षणेन भरतर्षभ / भीमसेनं महेष्वासं समनुद्रुत्य वेगिताः // 10 क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् / / नाशक्नुवन्वारयितुं समेत्यापि महारथाः // 11 स तेषां प्रेक्षतामेव श्रीमतां दृढधन्विनाम् / / ययौ भागीरथीकच्छं हरिभि शवेगितैः / यत्र स्म श्रूयते द्रौणिः पुत्रहन्ता महात्मनाम् / / 12 स ददर्श महात्मानमुदकान्ते यशस्विनम् / कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह // 13 तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् / रजसा ध्वस्तकेशान्तं ददर्श द्रौणिमन्तिके / / 14 तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः / वैशंपायन उवाच / इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः / द्रौणेबुवा महाबाहुरर्जुनं प्रत्यभाषत // 1 अर्जुनार्जुन यदिव्यमस्त्रं ते हृदि वर्तते / द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव // 2 भ्रातृणामात्मनश्चैव परित्राणाय भारत।। विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् / / 3 / केशवेनैवमुक्तस्तु पाण्डवः परवीरहा। अवातरद्रथात्तर्ण प्रगृह्य सशरं धनुः // 4 पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने / भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः // 5 देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः / उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् // 6 ततस्तदत्रं सहसा सृष्टं गाण्डीवधन्वना / - 1954