________________ 8. 88. 21] कर्णपर्व [8. 68. 36 महोरगा वासमिवाभितोऽत्रैः // 21 हतैर्मनुष्याश्वगजैश्च संख्ये शरावभिन्नैश्च रथैबभूव / धनंजयस्याधिरथेश्च मार्गे गजैरगम्या वसुधातिदुर्गा // 22 स्थैर्वरेषून्मथितैश्च योधैः संस्यूतसूताश्ववरायुधध्वजैः / विशीर्णशस्वैर्विनिकृत्तबन्धुरै निकृत्तचक्राक्षयुगत्रिवेणुभिः // 23 विमुक्तयत्रैर्निहतैरयस्मयै हतानुषङ्गैर्विनिषङ्गबन्धुरैः। प्रभमनीडैमणिहेममण्डितैः स्तृता मही द्यौरिव शारदैर्घनैः // 24 विकृष्यमाणैर्जवनैरलंकृतै हतेश्वरैराजिरथैः सुकल्पितैः। मनुष्यमातङ्गरथाश्वराशिभि द्रुतं व्रजन्तो बहुधा विचूर्णिताः // 25 सहेमपट्टाः परिघाः परश्वधाः कडङ्गरायोमुसलानि पट्टिशाः / पेतुश्च खड्गा विमला विकोशा गदाश्च जाम्बूनदपट्टबद्धाः // 26 चापानि रुक्माङ्गदभूषणानि शराश्च कार्तस्वरचित्रपुङ्खाः / ऋष्ट्यश्च पीता विमला विकोशाः * प्रासाः सखगाः कनकावभासाः // 27 छत्राणि वालव्यजनानि शङ्खाः स्रजश्व पुष्पोत्तमहेमचित्राः। कुथाः पताकाम्बरवेष्टिताश्च किरीटमाला मुकुटाश्च शुभ्राः // 28 प्रकीर्णका विप्रकीर्णाः कुथाश्च - 1799 प्रधानमुक्तातरलाश्च हाराः। आपीडकेयूरवराङ्गदानि प्रैवेयनिष्काः ससुवर्णसूत्राः // 29 मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोच्चावचमङ्गलानि / गात्राणि चात्यन्तसुखोचितानि __ शिरांसि चेन्दुप्रतिमाननानि // 30 देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञानि सुखानि चापि / स्वधर्मनिष्ठां महतीमवाप्य __व्याप्तांश्च लोकान्यशसा समीयुः // 31 इत्येवमुक्त्वा विरराम शल्यो दुर्योधनः शोकपरीतचेताः / हा कर्ण हा कर्ण इति ब्रुवाण आर्तो विसंज्ञो भृशमश्रुनेत्रः // 32 तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य सह प्रयान्ति / निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम् // 33 नराश्वमातङ्गशरीरजेन रक्तेन सिक्ता रुधिरेण भूमिः / रक्ताम्बरस्रक्तपनीययोगा नारी प्रकाशा इव सर्वगम्या // 34 प्रच्छन्नरूपा रुधिरेण राज नौद्रे मुहूर्तेऽतिविराजमानाः / नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाश्च सर्वे // 35 वधेन कर्णस्य सुदुःखितास्ते ___ हा कर्ण हा कर्ण इति ब्रुवाणाः / द्रुतं प्रयाताः शिबिराणि राज-