________________ 8. 60. 1] সন্ধানে [8. 60. 18 वरूथिना श्वेतहयेन राजन् / पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान् // 1 सूतं रथादञ्जलिकेन पात्य जघान चाश्वाञ्जनमेजयस्य / शतानीकं सुतसोमं च भल्लै-- वाकिरद्धनुषी चाप्यकृन्तत् // 2 धृष्टद्युम्नं निर्बिभेदाथ षड्भि र्जघान चाश्वं दक्षिणं तस्य संख्ये / हत्वा चाश्वान्सात्यकः सूतपुत्रः __ कैकेयपुत्रं न्यवधीद्विशोकम् // 3 तमभ्यधावन्निहते कुमारे कैकेयसेनापतिस्पधन्वा। शरैर्विभिन्नं भृशमुग्रवेगैः कर्णात्मजं सोऽभ्यहनत्सुषेणम् // 4 तस्यार्धचन्द्रनिभिरुच्चकर्त प्रसह्य बाहू च शिरश्च कर्णः / स स्यन्दनाद्गामपतद्गतासुः परश्वधैः शाल इवावरुग्णः // 5 हताश्वमञ्जोगतिभिः सुषेणः ___शिनिप्रवीरं निशितैः पृषकैः / प्रच्छाद्य नृत्यन्निव सौतिपुत्रः शैनेयबाणाभिहतः पपात // 6 पुत्रे हते क्रोधपरीतचेताः __ कर्णः शिनीनामृषभं जिघांसुः / हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्वाणममित्रसाहम् // 7 स तस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् / शिखण्डिनः कार्मुकं स ध्वजं च च्छित्त्वा शराभ्यामहनत्सुजातम् // 8 शिखण्डिनं षड्भिरविध्यदुनो दान्तो धार्टद्युम्नशिरश्चकर्त। अथाभिनत्सुतसोमं शरेण स संशितेनाधिरथिर्महात्मा // 9 अथाक्रन्दे तुमुले वर्तमाने धार्टद्युम्ने निहते तत्र कृष्णः / अपाञ्चाल्यं क्रियते याहि पार्थ कणं जहीत्यब्रवीद्राजसिंह // 10 ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेजगाम / भये तेषां त्राणमिच्छन्सुबाहु रभ्याहतानां रथयूथपेन // 11 विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च / बाणान्धकारं सहसैव कृत्वा जघान नायाश्वरथान्नरांश्च // 12 तं भीमसेनोऽनु ययौ रथेन ___ पृष्ठे रक्षन्पाण्डवमेकवीरम् / तौ राजपुत्रौ त्वरितौ रथाभ्यां .. कर्णाय यातावरिभिर्विमुक्तौ // 13 अत्रान्तरे सुमहत्सूतपुत्र श्चके युद्धं सोमकान्संप्रमृद्गन् / रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास दिशः शरैश्च // 1.4 तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च। कर्ण विनेदुः सहिताः पृषत्कैः संमर्दमानाः सह पार्षतेन // 15 ते पञ्च पाञ्चालरथाः सुरूपै-1276--