________________ 6. 117. 26 ] भीष्मपर्व [6. 117.34 अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे // 26 अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा / अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः // 27 दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा / यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि // 28 भीष्म उवाच। न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् / अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया // 29 विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि / यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् / / 30 अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि / क्षत्रधर्मजिताल्लोकान्संप्राप्स्यसि न संशयः॥ 31 युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः / धर्मो हि युद्धाच्छेयोऽन्यत्क्षत्रियस्य न विद्यते॥३२ प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया / न चैव शकितः कर्तुं यतो धर्मस्ततो जयः // 33 __ संजय उवाच / एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च / राधेयो रथमारुह्य प्रायात्तव सुतं प्रति // 34 इति श्रीमहाभारते भीष्मपर्वणि ___ सप्तदशाधिकशततमोऽध्यायः // 11 // // समाप्तं भीष्मवधपर्व // ॥समाप्तं भीष्मपर्व // - 1335