________________ 4. 60. 18 ] महाभारते [4. 61. 18 न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय // 18 / न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् / परैहि युद्धेन कुरुप्रवीर प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष // 19 इति श्रीमहाभारते विराटपर्वणि षष्टितमोऽध्यायः // 6 // वैशंपायन उवाच / आहूयमानस्तु स तेन संख्ये महामना धृतराष्ट्रस्य पुत्रः / निवर्तितस्तस्य गिराङ्कशेन ___ गजो यथा मत्त इवाङ्कुशेन // 1 सोऽमृष्यमाणो वचसाभिमृष्टो महारथेनातिरथस्तरस्वी। पर्याववर्ताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः // 2 तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तभ्य च विद्धगात्रः। दुर्योधनं दक्षिणतोऽभ्यगच्छ___त्पार्थं नृवीरो युधि हेममाली // 3 भीष्मस्ततः शांतनवो निवृत्य __ हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान् / दुर्योधनं पश्चिमतोऽभ्यरक्ष__पार्थान्महाबाहुरधिज्यधन्वा // 4 द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् / सर्वे पुरस्ताद्विततेषुचापा दुर्योधनार्थं त्वरिताभ्युपेयुः // 5 स तान्यनीकानि निवर्तमाना न्यालोक्य पूर्णौघनिभानि पार्थः / हंसो यथा मेघमिवापतन्तं / धनंजयः प्रत्यपतत्तरस्वी // 6 ते सर्वतः संपरिवार्य पार्थ मस्त्राणि दिव्यानि समाददानाः / ववर्षुरभ्येत्य शरैः समन्ता न्मेघा यथा भूधरमम्बुवेगैः // 7 ततोऽस्त्रमस्त्रेण निवार्य तेषां __गाण्डीवधन्वा कुरुपुंगवानाम् / संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकान्द्रिरपारणीयम् // 8 ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपुङ्खैः / / गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयांचकार // 9 ततः पुनर्भीमरवं प्रगृह्य दोभ्या॑ महाशङ्खमुदारघोषम् / व्यनादयत्स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता // 10 ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन। उत्सृज्य चापानि दुरासदानि __ सर्वे तदा शान्तिपरा बभूवुः // 11 तथा विसंज्ञेषु परेषु पार्थः ___ स्मृत्वा तु वाक्यानि तथोत्तरायाः / निर्याहि मध्यादिति मत्स्यपुत्र मुवाच यावत्कुरवो विसंज्ञाः // 12 आचार्यशारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् / -866