________________ 3. 249. 5] महाभारते [ 3. 250.5 वयं हि मानं तव वर्धयन्तः __पृच्छाम भद्रे प्रभवं प्रभुं च / आचक्ष्व बन्धुंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम् // 5 अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः / असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव / त्रिगर्तराजः कमलायताक्षि क्षेमंकरो नाम स एष वीरः॥ 6 अस्मात्परस्त्वेष महाधनुष्मा न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः / निरीक्षते त्वां विपुलायतांसः ___ सुविस्मितः पर्वतवासनित्यः // 7 असौ तु यः पुष्करिणीसमीपे __श्यामो युवा तिष्ठति दर्शनीयः / इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एष हन्ता द्विषतां सुगात्रि // 8 यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः। शोणाश्वयुक्तेषु रथेषु सर्वे ___ मखेषु दीप्ता इव हव्यवाहाः // 9 अङ्गारकः कुञ्जरगुप्तकश्च शत्रुजयः संजयसुप्रवृद्धौ / प्रभंकरोऽथ भ्रमरो रविश्व शूरः प्रतापः कुहरश्च नाम // 10 यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च / जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः॥ 11 तस्यापरे भ्रातरोऽदीनसत्त्वा ___ बलाहकानीकविदारणाद्याः। सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति // 12 एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः। अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य // 13 इति श्रीमहाभारते आरण्यकपर्वणि एकोनपञ्चाशदधिकद्विशततमोऽध्यायः // 249 // 250 वैशंपायन उवाच / अथाब्रवीद्रौपदी राजपुत्री ___पृष्टा शिबीनां प्रवरेण तेन / अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम् // 1 बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमरे / न त्वेह वक्तास्ति तवेह वाक्य मन्यो नरो वाप्यथ वापि नारी // 2 एका ह्यहं संप्रति तेन वाचं ___ ददानि वै भद्र निबोध चेदम् / अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे // 3 जानामि च त्वां सुरथस्य पुत्रं . यं कोटिकाश्येति विदुर्मनुष्याः / तस्मादहं शैब्य तथैव तुभ्य___माख्यामि बन्धून्प्रति तन्निबोध // 4 अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः। -730 --