________________ 3. 134.7] महाभारते [3. 134. 18 बन्धुवाच / एक एवाग्निर्बहुधा समिध्यते - एकः सूर्यः सर्वमिदं प्रभासते / एको वीरो देवराजो निहन्ता यमः पितॄणामीश्वरश्चैक एव // 7 ___ अष्टावक्र उवाच / द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतश्च / द्वावश्विनौ द्वे च रथस्य चक्रे __ भार्यापती द्वौ विहितौ विधात्रा // 8 बन्धुवाच / त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति / अध्वर्यवस्त्रिषवणानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः // 9 अष्टावक्र उवाच / चतुष्टयं ब्राह्मणानां निकेतं ___ चत्वारो युक्ता यज्ञमिमं वहन्ति / दिशश्चतस्रश्चतुरश्च वर्णाश्चतुष्पदा गौरापि शश्वदुक्ता / / 10 बन्धुवाच। पञ्चाग्नयः पञ्चपदा च पति यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि / दृष्टा वेदे पश्चचूडाश्च पञ्च लोके ख्यातं पञ्चनदं च पुण्यम् // 11 अष्टावक्र उवाच / षडाधाने दक्षिणामाहुरेके षडेवेमे ऋतवः कालचक्रम् / षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट् साद्यस्काः सर्ववेदेषु दृष्टाः // 12 / बन्धुवाच / सप्त ग्राम्याः पशवः सप्त वन्याः सप्त छन्दांसि ऋतुमेकं वहन्ति / सप्तर्षयः सप्त चाप्यर्हणानि सप्ततश्री प्रथिता चैव वीणा // 13 अष्टावक्र उवाच। अष्टौ शाणाः शतमानं वहन्ति ____तथाष्टपादः शरभः सिंघाती / अष्टौ वसूशुश्रुम देवतासु यूपश्चाष्टानिर्विहितः सर्वयज्ञः // 14 ... बन्धुवाच। . . नवैवोक्ताः सामिधेन्यः पितॄणां . . __तथा प्राहुर्नवयोगं विसर्गम्। नवाक्षरा बृहती संप्रदिष्टा नवयोगो गणनामेति शश्वत् // 15 अष्टावक्र उवाच / दशा दशोक्ताः पुरुषस्य लोके __ सहस्रमाहुर्दश पूर्णं शतानि / दशैव मासान्बिभ्रति गर्भवत्यो ___दर्शरका दश दाशा दशाणाः // 16 बन्धुकाच / एकादशैकादशिनः पशूना. मेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः // 17 अष्टावक्र उवाच / संवत्सरं द्वादशमासमाहु र्जगत्याः पादो द्वादशैवाक्षराणि। द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह विप्राः // 18 -566