________________ 4: 112. 1] [3. 12:18 112 ऋश्यशृङ्ग उवाच / इहागतो जटिलो ब्रह्मचारी न वै हस्खो नातिदी? मनस्वी। सुवर्णवर्णः कमलायताक्षः सुतः सुराणामिव शोभमानः॥१ समृद्धरूपः सवितेव दीप्तः __सुशुक्लकृष्णाक्षतरश्चकोरैः। नीलाः प्रसन्नाश्च जटाः सुगन्धा : ___ हिरण्यरज्जुग्रथिताः सुदीर्घाः॥२ आधाररूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे। द्वौ चास्य पिण्डावधरेण कण्ठ___मजातरोमौ सुमनोहरौ च // 3 विलममध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा। तथास्य चीरान्तरिता प्रभाति हिरण्मयी मेखला मे यथेयम् // 4 अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः संप्रभाति / पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् // 5 विचेष्टमानस्य च तस्य तानि __ कूजन्ति हंसाः सरसीव मत्ताः। चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति // 6 वक्त्रं च तस्याद्भुतदर्शनीयं ___ प्रव्याहृतं हादयतीव चेतः। पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो में व्यथितोऽन्तरात्मां // 7 / - 53 यथा वनं माधवमासि मध्ये समीरितं श्वसनेनाभिवाति / तथा स वात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात // 8 सुसंयताश्चापि जटा विभक्ता द्वैधीकृता भान्ति समा ललाटे। कौँ च चित्रैरिव चक्रवालैः समावृतौ तस्य सुरूपवद्भिः // 9 / तथा फलं वृत्तमथो विचित्रं समाहनत्पाणिना दक्षिणेन। तद्भूमिमासाद्य पुनः पुनश्च __ समुत्पतत्यद्भुतरूपमुच्चैः॥ 10 तच्चापि हत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णः। तं प्रेक्ष्य मे पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता // 11 स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम् / वक्त्रेण वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम् // 12 न चापि पाद्यं बहु मन्यतेऽसौ - फलानि चेमानि मयाहृतानि / एवंव्रतोऽस्मीति च मामवोच त्फलानि चान्यानि नवान्यदान्मे // 13 मयोपयुक्तानि फलानि तानि नेमानि तुल्यानि रसेन तेषाम् / न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् // 14 तोयानि चैवातिरसानि मह्यं प्रादास वै पातुमुदाररूपः / -