________________ 3. 78. 23 ] महाभारते [3. 79. 26 ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः // 23 इति श्रीमहाभारते भारण्यकपर्वणि भष्टसप्ततितमोऽध्यायः॥७८॥ जनमेजय उवाच। भगवन्काम्यकात्पार्थे गते मे प्रपितामहे / पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् // 1 स हि तेषां महेष्वासो गतिरासीदनीकजित्। आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे // 2 तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना। विनाभूता वने वीराः कथमासन्पितामहाः॥३ वैशंपायन उवाच / गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि / बभूवुः कौरवेयास्ते दुःखशोकपरायणाः // 4 आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः / अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः॥५ वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा। कुबेरेण यथा हीनं वनं चैत्ररथं तथा // 6 तमूते पुरुषव्याघ्रं पाण्डवा जनमेजय / मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा // 7 ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः। निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् // 8 नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः। विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् // 9 एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः।। अहृष्टमनसः सर्वे गते राजन्धनंजये॥१० अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् / स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् // 11 योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना / तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे। शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् // 12 बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् / न तथा रमणीयं मे तमृते सव्यसाचिनम् // 13 नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् / तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे // 14 यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः। . न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम्॥१५ तथा लालप्यमानां तां निशम्य परवीरहा। भीमसेनो महाराज द्रौपदीमिदमब्रवीत्॥१६ मनःप्रीतिकरं भद्रे यद्ववीषि सुमध्यमे। तन्मे प्रीणाति हृदयममृतप्राशनोपमम् // 17 यस्य दी? समौ पीनौ भुजौ परिघसंनिभौ / मौर्वीकृतकिणौ वृत्तौ खगायुधगदाधरौ॥ 18 : निष्काङ्गदकृतापीडौ पञ्चशीर्षा विवोरगौ। तमृते पुरुषव्याघ्र नष्टसूर्यमिदं वनम् // 19 यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा / सुराणामपि यत्तानां पृतनासु,न बिभ्यति // 20 यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः / मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् // 21 तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् / शून्यामिव च पश्यामि तत्र तत्र महीमिमाम्॥२२ नकुल उवाच / य उदीची दिशं गत्वा जित्वा युधि महाबलान् / गन्धर्वमुख्याञ्शतशो हयाल्लेभे स वासविः॥२३ राजस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः / प्रादादात्रे प्रिय: प्रेम्णा राजसूये महाक्रतौ // 24 तमृते भीमधन्वानं भीमादवरजं वने / कामये काम्यके वासं नेदानीममरोपमम् // 25 सहदेव उवाच। | यो धनानि च कन्याश्च युधि जित्वा महारथान् /