________________ 3:48. 25] महामारते [ 3. 49. दुर्योधनं रणे हत्वा सद्यः कर्ण च भारत / दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते // 25 ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् / / धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् // 26 अर्थनमब्रवीद्राजा तस्मिन्वीरसमागमे / शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च // 27 प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन / अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि // 28 वर्षात्रयोदशादूचं सत्यं मां कुरु केशव। . प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् / / 29 तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः। धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा / केशवं मधुरैर्वाक्यः कालयुक्तैरमर्षितम् // 30 पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः। दुर्योधनस्तव क्रोधादेवि त्यक्ष्यति जीवितम् / प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि // 31 ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा। मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः॥३२ पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा। उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले // 33 तेषां द्रक्ष्यसि पाश्चालि गात्राणि पृथिवीतले। क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्॥३४ परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता। तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्॥३५ एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः। / सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः // 36 से धर्मराजेन वृता वर्षादूर्ध्व त्रयोदशात् / / पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः // 37 रामश्च कृष्णश्च धनंजयश्च * प्रद्युम्नसाम्बौ युयुधानभीमौ। माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह धर्मराज्ञा // 38 एतान्सल्लिोकवीरानजेया___ महात्मनः सानुबन्धान्ससैन्यान् / को जीवितार्थी समरे प्रत्युदीयाक्रुद्धान्सिंहान्केसरिणो यथैव // 39 . धृतराष्ट्र उवाच। यन्माब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाओष्यसि चेन्नरेन्द्र। ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणिचौघः // 40 मन्ये तथा तद्भवितेति सूत ___ यथा क्षत्ता प्राह वचः पुरा माम् / असंशयं भविता युद्धमेत द्गते काले पाण्डवानां यथोक्तम् // 41 इति श्रीमहाभारते आरण्यकपर्वणि __ अष्टचत्वारिंशोऽध्यायः // 8 // 0 जनमेजय उवाच / अनहेतोगते पार्थे शक्रलोकं महात्मनि / युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः // 1 वैशंपायन उवाच। अनहेतोगते पार्थे शक्रलोकं महात्मनि / न्यवसन्कृष्णया साधं काम्यके पुरुषर्षभाः // 2 ततः कदाचिदेकान्ते विविक्त इव शाहले। दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया / धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः // 3 तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे / धनंजयवियोगाश्च राज्यनाशाच दुःखिताः॥ 4 अथ भीमो महाबाहुर्युधिष्ठिरमभाषत। - 454 -