________________ 3. 24. 2] महाभारते [ 3. 24.16 आस्थाय वीराः सहिता वनाय ___ प्रतस्थिरे भूतपतिप्रकाशाः / हिरण्यनिष्कान्वसनानि गाश्च ___ प्रदाय शिक्षाक्षरमत्रविद्भयः // 2 प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि वर्माणि शरांश्च पीतान् / मौर्वीश्च यत्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः // 3 ततस्तु वासांसि च राजपुत्र्या ___ धात्र्यश्च दास्यश्च विभूषणं च। तदिन्द्रसेनस्त्वरितं प्रगृह्य जघन्यमेवोपययौ रथेन // 4 ततः कुरुश्रेष्ठमुपेत्य पौराः ... प्रदक्षिणं चक्रुरदीनसत्त्वाः / . __तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना - मुख्याश्च सर्वे कुरुजाङ्गलानाम् // 5 स चापि तानभ्यवदत्प्रसन्नः ___ सहैव तैर्धातृभिर्धर्मराजः। तस्थौ च तत्राधिपतिर्महात्मा . . दृष्ट्वा जनैौघं कुरुजाङ्गलानाम् // 6 पितेव पुत्रेषु स तेषु भावं ___ चक्रे कुरूणामृषभो महात्मा। ते चापि तस्मिन्भरतप्रबहे . तदा बभूवुः पितरीव पुत्राः॥७ ततः समासाद्य महाजनौघाः ___ कुरुप्रवीरं परिवार्य तस्थुः। हा नाथ हा धर्म इति ब्रुवन्तो ह्रिया च सर्वेऽश्रुमुखा बभूवुः / / 8 वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् / पौरानिमाञ्जानपदांश्च सर्वा__न्हित्वा प्रयातः क नु धर्मराजः॥९ धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं ससौबलं पापमतिं च कर्णम् / अनर्थमिच्छन्ति नरेन्द्र पापा __ ये धर्मनित्यस्य सतस्तवोग्राः॥ 10 ... स्वयं निवेश्याप्रतिमं महात्मा पुरं महद्देवपुरप्रकाशम् / शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क नु धर्मराजः॥ 11 चकार यामप्रतिमां महात्मा सभा मयो देवसभाप्रकाशाम् / तां देवगुप्तामिव देवमायां हित्वा प्रयातः क नु धर्मराजः // 12 तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुचैः सहितानुवाच / आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि // 13 / द्विजातिमुख्याः सहिताः पृथक्च भवद्भिरासाद्य तपस्विनश्च / प्रसाद्य धर्मार्थविदश्च वाच्या __ यथार्थसिद्धिः परमा भवेन्नः // 14 इत्येवमुक्ते वचनेऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् / मुदाभ्यनन्दनसहिताश्च चक्रुः ___ प्रदक्षिणं धर्मभृतां वरिष्ठम् // 15 आमक्रय पार्थं च वृकोदरं च धनंजयं याज्ञसेनी यमौ च / प्रतस्थिरे राष्ट्रमपेतहर्षा - 418 -