________________ 1. 215. 6] आदिपर्व [1. 216. 12 इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति / तं न शक्नोम्यहं दग्धं रक्ष्यमाणं महात्मना // 6 वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा / सगणस्तत्कृते दावं परिरक्षति वज्रभृत् / / 7 तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः / तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा // 8 स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति / ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् // 9 स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः / दहेयं खाण्डवं दावमेतदन्नं वृतं मया // 10 युवा हुंदकधारास्ता भूतानि च समन्ततः / उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः // 11 एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् / दिधलु खाण्डवं दावमकामस्य शतक्रतोः // 12 उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च / यैरहं शक्नुयां योद्धमपि वज्रधरान्बहून् // 13 धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् / कुर्वतः समरे यत्नं वेगं यद्विषहेत मे / / 14 शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः / न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् // 15 अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः। रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् // 16 तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् / येन नागान्पिशाचांश्च निहन्यान्माधवो रणे // 17 उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि / निवारयेयं येनेन्द्रं वर्षमाणं महावने // 18 पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक / करणानि समर्थानि भगवन्दातुमर्हसि // 19 इति श्रीमहाभारते आदिपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः // 215 // 216 वैशंपायन उवाच / एवमुक्तस्तु भगवान्धूमकेतुर्हताशनः / चिन्तयामास वरुणं लोकपालं दिदृक्षया। . आदित्यमुदके देवं निवसन्तं जलेश्वरम् // 1 स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् / तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् / चतुर्थं लोकपालानां रक्षितारं महेश्वरम् // 2 सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते / तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् // 3 कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति / चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् / ददानीत्येव वरुणः पावकं प्रत्यभाषत // 4 ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् / सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च / सर्वायुधमहामात्रं परसेनाप्रधर्षणम् // 5 एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् / चित्रमुच्चावचैर्वणः शोभितं श्लक्ष्णमव्रणम् // 6 देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः / प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी // 7 रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् / उपेतं राजतैरश्वैर्गान्धहेममालिभिः / पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे // 8 सर्वोपकरणैर्युक्तमजय्यं देवदानवैः / भानुमन्तं महाघोषं सर्वभूतमनोहरम् // 9 ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः / प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव // 10 यं स्म सोमः समारुह्य दानवानजयत्प्रभुः / नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया // 11 आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा / -279