________________ 1. 190. 3] आदिपर्व [1. 190. 17 कान्पतीन्मे भगवान्ददातु / स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र // 3 यदि वायं विहितः शंकरेण धर्मोऽधर्मो वा नात्र ममापराधः। गृहन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा // 4 . वैशंपायन उवाच। ततोऽब्रवीद्भगवान्धर्मराज मद्य पुण्याहमुत पाण्डवेय। अद्य पौष्यं योगमुपैति चन्द्रमाः - पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् // 5 ततो राजा यज्ञसेनः सपुत्रो __जन्यार्थयुक्तं बहु तत्तदग्र्यम् / समानयामास सुतां च कृष्णा माप्लाव्य रत्नैर्बहुभिर्विभूष्य // 6 ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मत्रिणश्च / द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः॥ 7 तत्तस्य वेश्मार्थिजनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् / / महार्हरनौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् // 8 ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः / महार्हवस्त्रा वरचन्दनोक्षिताः ... कृताभिषेकाः कृतमङ्गलक्रियाः॥९ पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो। - 251 क्रमेण सर्वे विविशुश्च तत्सदो ___महर्षभा गोष्ठमिवाभिनन्दिनः // 10 ततः समाधाय स वेदपारगो जुहाव मत्रैर्ध्वलितं हुताशनम् / युधिष्ठिरं चाप्युपनीय मत्रवि नियोजयामास सहैव कृष्णया // 11 प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः। ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ // 12 क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् / अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः // 13 इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् / महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि // 14 कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम्। शतं रथानां वरहेमभूषिणां __ चतुर्युजां हेमखलीनमालिनाम् // 15 शतं गजानामभिपद्मिनां तथा * शतं गिरीणामिव हेमशृङ्गिणाम् / तथैव दासीशतमग्र्ययौवनं महाहवेषाभरणाम्बरस्रजम् // 16 पृथक्पृथक्चैव दशायुतान्वितं धनं ददो सोमकिरग्निसाक्षिकम् / तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि // 17 -