________________ 1. 178.7] आदिपर्व [1. 179. 5 देवर्षयो गुह्यकाश्चारणाश्च / विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याश्च सहाप्सरोभिः॥७ हलायुधस्तत्र च केशवश्च ___ वृष्ण्यन्धकाश्चैव यथा प्रधानाः। प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते स्थिताश्च कृष्णस्य मते बभूवुः॥ 8 दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा न्पश्चाभिपद्मानिव वारणेन्द्रान् / भस्मावृताङ्गानिव हव्यवाहा पार्थान्प्रदध्यौ स यदुप्रवीरः // 9 शशंस रामाय युधिष्ठिरं च भीमं च जिष्णुं च यमौ च वीरौ / शनैः शनैस्तांश्च निरीक्ष्य रामो ___ जनार्दनं प्रीतमना ददर्श / / 10 अन्ये तु नानानृपपुत्रपौत्राः - कृष्णागतैर्नेत्रमनःस्वभावैः। व्यायच्छमाना ददृशुर्धमन्ती संदष्टदन्तच्छदताम्रवक्त्राः // 11 तथैव पार्थाः पृथुबाहवस्ते - वीरौ यमौ चैव महानुभावौ / तां द्रौपदी प्रेक्ष्य तदा स्म सर्वे - कन्दर्पबाणाभिहता बभूवुः // 12 देवर्षिगन्धर्वसमाकुलं त- सुपर्णनागासुरसिद्धजुष्टम् / दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् // 13 महावनैर्दुन्दुभिनादितैश्च बभूव तत्संकुलमन्तरिक्षम् / विमानसंबाधमभूत्समन्ता त्सवेणुवीणापणवानुनादम् // 14: ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं नृप विक्रमन्तः। तत्कार्मुकं संहननोपपन्नं ___सज्यं न शेकुस्तरसापि कर्तुम् // 15 ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः / विचेष्टमाना धरणीतलस्था दीना अदृश्यन्त विभग्नचित्ताः // 16 हाहाकृतं तद्धनुषा दृढेन निष्पिष्टभग्नाङ्गदकुण्डलं च / कृष्णानिमित्तं विनिवृत्तभावं ___ राज्ञां तदा मण्डलमार्तमासीत् // 17 तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु नराधिपेषु / कुन्तीसुतो जिष्णुरियेष कर्तुं ___ सज्यं धनुस्तत्सशरं स वीरः॥ 18 इति श्रीमहाभारते आदिपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः // 178 // वैशंपायन उवाच। यदा निवृत्ता राजानो धनुषः सज्यकर्मणि / अथोदतिष्ठद्विप्राणां मध्याजिष्णुरुदारधीः // 1 उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च / दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् // 2 केचिदासन्विमनसः केचिदासन्मुदा युताः / / आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः // 3 यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः। नानतं बलवद्भिर्हि धनुर्वेदपरायणैः // 4 तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा / - 235 -