________________ * 462 प्रसपदापरिशिष्टम् / 5 प्रथमाध्यायद्वितीयाह्निकस्य अविशेषाभिहितिद्वादशसूत्रभाष्ये 'पृष्ठे 2 पतौ " प्रयुक्तपूर्वाश्चमे शब्दा अर्थे प्रयुज्यन्ते नाायुक्तपूर्वाः" इतिभाष्यस्य- 'यदि चेमे शब्दा अप्रयुक्तपूर्वाः स्युस्तदेषां स्वमनीषयाप्यर्थकल्पनं संभवेत् चैवमताते प्रयुक्तपूर्वाणां शब्दानां स्वमनीषयार्थकल्पनं न संभवति , इत्याशयः / पूर्वैः प्रयुक्ता इति प्रयुक्तपूर्वाः / 6 द्वितीयाध्यायप्रथमाह्निके 98 पृष्ठे एकादशं सूत्रम् "युगपत्सिद्धौ प्रत्यर्थनियत्वात् क्रमवृत्तित्वाभावो बुद्धीनाम् 2-1-11" इत्यऽस्य वर्णकान्तरम्- प्रमेयाणि गन्धादीनि सर्वाण्येव पृथिव्यां वर्तन्ते तैः सह प्रमाणानां सत्तास्वीकारे बुद्धीनां प्रत्यर्थनियतत्वात्= स्वस्खविषयग्राहकत्वात् सर्वैरपि प्रमाणैः स्वस्वविषयाणां गन्धादीनां प्रतिभासः प्राप्त एवेति बुद्धीनां क्रमवृत्तित्वाभावः प्राप्तः प्रमाणप्रमेययोः सहभावपक्षे इत्यर्थः / किं वा- पूर्वोक्तदोषद्वयपरिजिहीर्षया यदि प्रमाणानां प्रमेयाणां च सहभाव उच्यते तदा ज्ञानानां क्रमवृत्तिवाभावः प्रसज्येत- ज्ञानानां प्रत्यर्थनियतत्वात् स्वस्वविषयमात्रग्राहकत्वात्. यदि ज्ञानानि प्रत्यर्थनियतानि ने स्युस्ता एकेन ज्ञानेनाऽनेकेषां विषयाणां ग्रहणं कालभेदेनैव स्यादिति क्रमवृत्तिस्वाभावापत्तिर्न स्यादपि. यदा च ज्ञानानि प्रत्यर्थनियतानि तदा घ्राणजादिज्ञानैर्गन्धादिरेव ग्राह्य इति सर्वैरप्येकदोत्पन्नवा॑नैः सैनिकैः स्वस्वशस्त्रग्रहणवदेकस्मिन्नेव क्षणे स्वस्वविषयाणां ग्रहणसंभवात् कालान्तरस्य चानपेक्षणात् अभीष्टस्य क्रमवृत्तित्वस्याभावः प्रसज्यते इत्यर्थः / दोषश्चायं मिथ्यैव- मनइन्द्रियसंयोगस्यापि गन्धादिज्ञानं प्रति कारणत्वस्वीकारात् तस्य च कालभेदेनैव संभवात्- मनसोऽणुत्वादिति न ज्ञानानां क्रमवृत्तित्वाभावस्यापत्तिन वाऽनेकेषां प्रमाणप्रमेयाणां युगपदावापत्तिश्च, एकस्य प्रमेयस्यैकेन प्रमाणेन स्वविषयकेण सहभावपक्षे तु सर्वेषां प्रमाणप्रमेयाणां सहभावाभावात् ज्ञानानां क्रमवृत्तित्वाभावस्यापत्तिर्नास्त्येवेति विभाव्यम् / वस्तुतस्तु प्रमाणप्रमेययोः सहभावपक्षे पूर्वोक्तदोषयोः समुच्चय एव प्रदर्शनीय आसीत् तत्र च 'युगपत्सिद्धावुक्तदोषसमुच्चयः' इत्येवं सूत्रं कर्तव्यमासीत् / अहं तु मन्ये सूत्रकारोयं प्रमाणप्रमेययोः सहभावे दोषप्रदर्शनं विस्मृत्य प्रमाणानामेव सहभावे दोषं प्रदर्शयति- युगपत्सिद्धाविति। यद्यपि भाष्यकारः प्रमाणप्रमेययोरेव सहभावपक्षमाश्रित्य सूत्रं व्याचष्टे- तथापि सूत्रपदार्थमात्र. मेव वदति. प्रमाणप्रमेययोः सहभावपक्षे ज्ञानानां क्रमवृत्तित्वाभावापत्तौ प्रत्यर्थनियतत्वादित्युक्तहेतोः सामर्थ्य नोपपादयति क्लिष्टवाक्योपेक्षैव प्रायो व्याख्यातृणां स्वभावस्तदुक्तं भोजेन __ "दुर्बोधं यदतीव तद्धि जहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वऽतिविस्तृतिं विदधति व्यर्थैः समासादिकैः / अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्धमं तन्वते __ श्रोतणामिति वस्तुविल्पवकृतः सर्वेपि टीकाकृतः // " इति, इत्यलं वृद्धानामधिकसमीक्षया / 7 द्वितीयाध्यायप्रथमाह्निके "न चैकदेशोपलब्धिः 32" इतिद्वात्रिंशत्संख्याकं सूत्रं तस्य भाष्ये / 124 पृष्ठे 1-2 पतौ-. "अशेषता वा समुदायो वृक्ष इति स्यात् " इतिपाठस्तस्य- 'अशेषता= समुदायो वृक्ष इति वा स्यात्' इत्येवं वान्वयः / / 8 द्वितीयाध्यायप्रथमाह्निके "सेनावनवत् 36" इतिषट्त्रिंशत्संख्याकं सूत्रं तस्य भाष्ये 129 पृष्ठे ___" अणुषु संचितेष्वेकप्रत्ययः किम्" इत्यादिपाठस्तस्य- एकोयमित्येकत्वप्रत्ययो यदि यथार्थस्तदाप्यवयवी सिद्धः- अवयविन एकत्वसंभवात् अनेकेषु परमाणुषु चैकत्वस्यासंभवात् , यदि चाऽयथार्थस्तदाप्युक्तरीत्या प्रधानप्रत्ययापेक्षा प्राप्तति प्रधानेनैकत्वप्रत्ययेनाऽवयवी सिद्ध इतिनिष्कर्षः /