________________ 459 निग्रहस्थाननिरूपणम् ) न्यायभाष्यम्। रमश्च भवति, मृदि खल्ववस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तरमिति प्रवृत्तिर्भवति. अभूदिति च प्रवृत्युपरमः. तदेतद् मृद्धर्माणामपि न स्यात् , एवं प्रत्यवस्थितो यदि सतश्चाऽऽत्महानमऽसतश्चाऽऽत्मलाभमभ्युपैति? तदस्याऽपसिद्धान्तो निग्रहस्थानं भवति, अथ नाभ्युपैति ? पक्षोऽस्य न सिध्यति // 23 // हेत्वाभासाश्च यथोक्ताः // 24 // हेत्वाभासाश्च निग्रहस्थानानि / किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वमापन्नाः यथा प्रमाणानि प्रमेयत्वम् ? इत्यत आह- यथोक्ता इति= हेत्वाभासलक्षणेनैव निग्रहस्थानभाव इति / ते इमे प्रमाणादयः पदार्था उद्दिष्टा लक्षिताः परीक्षिताश्चेति // 24 // ... योऽक्षपादमृषि न्यायः प्रत्यभाद्वदतां वरम् / तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् // // इति विद्वद्वरवात्स्यायनविरचिते न्यायभाष्ये पञ्चमोऽध्यायः समाप्तः॥ // न्यायदर्शनं चेदं समाप्तम् // उक्तं विशदयति- प्रतिज्ञातमिति, उक्तप्रतिज्ञाया बाधमुद्घाटयति- सदसतोरिति, सतः तिरोभावं विना असतश्चाविर्भाव विना कस्यचिदपि प्रवृत्तिः प्रवृत्त्युपरमः= निवृत्तिश्च न संभवति / प्रवृत्तिनिवृत्त्योः प्रत्यक्षसिद्धत्वमाह-मृदीति, शरावादिलक्षणम्= शरावाद्याकृतिलक्षणं धर्मान्तरं भविष्यतीत्यनेन प्रवृत्तिरुच्यते, अभूदित्यनेन च निवृत्तिरुच्यते, यदि सदसत्तोस्तिरोभावप्रादुर्भावौ न स्यातां तदा मृद्धर्माणामपि घटाद्याकृतीनां एतत्= प्रवृत्तिनिवृत्तिश्च न स्यात् तथा चोक्तं प्रकृतिविकारयोर्लक्षणं न संगच्छेत- पूर्वस्य सत एव धर्मस्य विनाशेनोत्तरस्य चोत्पत्त्यैव विकारत्वसंभवात् तादृशधर्माश्रयस्य च प्रकृतित्वसंभवादऽन्यथा प्रकृतिविकारयोः सत्त्वाविशेषाद् वैलक्षण्यं न स्यादित्यर्थः / अपसिद्धान्तं निर्दिशति- एवमिति, एवम् उक्तरूपेण प्रत्यवस्थितः= चोदितः पृष्टः, यदि सत आत्महानम् तिरोभावम्= विनाशम् असतश्चात्मलाभम्= उत्पत्तिं स्वीकरोति तदाऽस्याऽपसिद्धान्तो निग्रहस्थानं भवति- पूर्वमनेन तदस्वीकारात्= एतद्विरुद्धस्य स्वीकृतत्वात्, तञ्च पूर्वत्र स्पष्टमेव- “न सदात्मानं जहाति" इत्यादिना / यदि सतो विनाशमसतश्चोत्पत्तिं न स्वीकरोति तदा प्रकृतिविकारयोरुक्तलक्षणाऽसिद्धया प्रधानप्रपञ्चयोः प्रकृतिविकारभाव इतिपक्षोऽस्य= वादिनः न सिध्यतीत्युभयतः पाशारज्जुरित्यर्थः, स्पष्टमन्यत्, इत्यपसिद्धान्तः // 23 // हेत्वाभासानां निग्रहस्थानत्वमतिदिशति- हेत्वाभासा इति, यथोक्ताः= प्रथमाध्यायद्वितीयाह्निके निरूपिता हेत्वाभासा अपि निग्रहस्थानभूता विज्ञेया इति सूत्रान्वयः, तथा च सूत्रम्- " सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः 1-2-4" इति / व्याचष्टे- हेत्वाभासाश्चेति / हेत्वाभासा स्वलक्षणेनैव निग्रहस्थानत्वं प्राप्ताः किं वा लक्षणान्तरयोगाद् यथा प्रमाकरणत्वात् प्रमाणानि प्रमाविषयत्वात् प्रमेयत्वं प्राप्तानीत्याशङ्कते- किमिति / उत्तरमाह- इत्यत इति, एतादृशशङ्कानिवृत्त्यर्थमेव सूत्रकारः " यथोक्ताः" इत्याहेत्यन्वयः, यथोक्ताः= उक्तलक्षणविशिष्टा एव= उक्तहेत्वाभासलक्षणैरेव निग्रहस्थानभूता इत्यर्थः, उक्तं व्याचष्टे- हेत्वाभासलक्षणेनैवेति, साध्यासाधकत्वं हि हेत्वाभासत्वं तदेव निग्रहस्थानत्वमपीति हेत्वाभासानां हेत्वाभासलक्षणेनैव निग्रहस्थानभावः= निग्रहस्थानत्वं प्राप्तं न तु लक्षणान्तरयोगादिति नात्र लक्षणान्तरमुक्तमित्यर्थः / स्वभाष्यं समापयति- ते इमे इति / शास्त्रमुपसंहरति- य इति, न्यायः= न्यायदर्शनम्, वदतां वरम्= विद्वद्वरम्, अक्षपादम्= गौतम