________________ 450 प्रसन्नपदापरिभूषितम्- [5 अध्याये. २आह्निकेप्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः // 4 // 'गुणव्यतिरिक्तं द्रव्यम्' इति प्रतिज्ञा. 'रूपादितोऽर्थान्तरस्यानुपलब्धेः' इति हेतुः. सोयं प्रतिज्ञाहेत्वोर्विरोधः / कथम् ?, यदि गुणव्यतिरिक्तं द्रव्यम् ? रूपादिभ्योऽर्थान्तरस्यानुपलब्धेः (इति) नोपपद्यते, अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः? गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते, गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिरिति विरुध्यते= व्याहन्यते= न संभवतीति // 4 // पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः // 5 // 'अनित्यः शब्द ऐन्द्रियकत्वात् ' इत्युक्ते परो ब्रूयात्- 'सामान्यमैन्द्रियकं न चानित्यमेवं शब्दोप्यन्द्रियको न चानित्यः' इति. एवं प्रतिषिद्ध पक्षे यदि ब्रूयात्- 'कः पुनराह अनित्यः शब्दः (इति) ? ' इति. सोयं प्रतिज्ञातार्थनिह्नवः प्रतिज्ञासंन्यास इति // 5 // अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् // 6 // निदर्शनम्- 'एकप्रकृतीदं व्यक्तम्' इति प्रतिज्ञा. कस्माद् हेतोः? 'एकप्रकृतीनां विकाराणां परिमाणात् " मृत्पूर्वकाणां शरावादीनां दृष्टं परिमाणं यावान् प्रकृतेर्म्यहो भवति तावान् विकारः' इति. दृष्टं च प्रतिविकारं परिमाणम् . अस्ति चेदं परिमाणं प्रतिव्यक्तम् , उपसंहरति= तदेतदिति, प्रतिज्ञायाः प्रतिज्ञान्तरमसाधकमिति तदुपादानमऽनर्थकमेवेति प्रतिज्ञान्तरं निग्रहस्थानम्- प्रतिज्ञासाधकस्यैव वक्तव्यत्यादित्वन्वयः स्पष्टमन्यत् // 3 // प्रतिज्ञाविरोधं लक्षयति-प्रतिज्ञेति, प्रतिज्ञाहेत्वोर्यः परस्परं विरोधः स प्रतिज्ञाविरोध इतिसूत्रान्वयः / व्याचष्टे-गुणेति / उपसंहरति-सोयमिति, यदा हि रूपादिगुणातिरिक्तं पदार्थान्तरं नोपलभ्यते तदा गुणव्यतिरिक्तस्य द्रव्यस्य सिद्धिर्न संभवतीति प्रतिज्ञाहेत्वोर्विरोधः सिद्धः / उक्तविरोधस्य कारणं जिज्ञासते- कथमिति / उत्तरमाह- यदीति / निगमयति- गुणव्यतिरिक्तं चेति, इतिपरस्परं विरुध्यते इत्यर्थः स्पष्टं सर्वम् / 'विरुध्यते' इतिशब्दस्याथै परमाप्रसिद्धं मन्यमानोयं भाष्यकार उत्तरोत्तरं व्याचष्टे- व्याहन्यते इत्यादिना // 4 // प्रतिज्ञासंन्यासं लक्षयति- पक्षेति, परेण पक्षप्रतिषेधे= प्रतिज्ञातार्थस्य हेतुव्यभिचारादिप्रदर्शनेन प्रतिषेधे कृते यत् प्रतिज्ञातार्थस्यापनयनम्= परित्यागः स प्रतिज्ञासंन्यास इतिसूत्रान्वयः, अन्यद् भाष्ये स्पष्टम् / व्याचष्टे- अनित्य इति / पक्षप्रतिषेधमाह- सामान्यमिति, पक्षे= प्रतिज्ञातार्थे शब्दानित्यत्वे / प्रतिज्ञासंन्यासमाह- क इति / उपसंहरति- सोयमिति, प्रतिज्ञातार्थस्य शब्दानित्यत्वस्य निह्नवः= परित्यागः प्रतिज्ञासंन्यास एवमन्यत्रापि योज्यम् / सर्व स्पष्टम् // 5 // हेत्वन्तरं लक्षयति- अविशेषेति, वादिना हेतौ अविशेषोक्ते= अविशेषरूपेण सामान्यरूपेणोक्ते तस्मिंश्च हेतौ प्रतिवादिना प्रतिषिद्धे दूषिते सति तत्र हेतौ विशेषमिच्छतः= कुर्वतः= विशेषणान्तरं प्रक्षिपतः हेत्वन्तरं भवति तेन च प्रयुञ्जानस्य हेत्वन्तरं निग्रहस्थानं भवतीति सूत्रार्थः / व्याचष्टेनिदर्शनमिति, उदाहरणमित्यर्थः / उदाहरति- एकेति, इदं व्यक्तम्= दृश्यमानं जगत् एकं प्रकृतिरस्येति एकप्रकृति= एकस्य प्रधानस्य कार्यमित्यर्थः / हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- एकेति, एकप्रकृतीनाम्= एकपदार्थजन्यानामेव विकाराणाम्= कार्याणां परिमाणात्= परिमितत्वात्= परिमितत्वदर्शनात्, अनेकप्रकृतीनां च परिमितत्वासंभवादित्यर्थः / उदाहरति-मृदिति, यथा मृत्पूर्वकाणाम्= मृद्विकाराणां शरावादीनां परिमाणम्= परिमितत्वं दृश्यते= यावान् प्रकृतेः= उपादानस्य व्यूहःपूरो भवति तावान् तद्विकारो भवति, तत्कस्य हेतोः? इति जिज्ञासायामेकप्रकृतित्वादेवेति वक्तव्यं