SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ समयसमीक्षा। प्रायः पृथ्वीपतीनामवलोक्यते साधरणप्रजाजनार्थ तु पृथिव्यां किमपि नास्तीति मन्ये एतेप्येवमेव मन्यन्ते / कलिकालोत्पन्नत्वेनैवैषामाचार्याणां तदर्शनानां च महत्त्वं स्पष्टं प्रतिभासते / एभिर्मतस्य साकल्येन जन्मजरामरणादिसंसारदुःखमपि निवर्तयितुं शक्यते जीवतस्तु कण्टकवेधवेदनापि निवर्तयितुं न शक्यते इत्येष खल्वेषां महिमा / 'धर्मस्य तत्त्वं निहितं गुहायां भृशं प्रविष्टा वयमेव तत्र' इत्येषामुद्घोषः। “विनायकं प्रकुर्वाणो रचयामास वानरम्" इतिन्यायेन तत्त्वोपपादने प्रवृत्तैरेतैः किं वा तत्त्वोपपादनव्याजेन स्वाग्रहा एवोपपादिताः, परेण यत् सम्यगुक्तं स्यात् तवश्यमेव खण्डनीयमित्येषां दृढा प्रतिज्ञा, किंबहुना परोक्तं प्रत्याख्याय तदेव कालान्तरे स्वसिद्धान्तत्वेन स्वीकुर्वन्ति चेत्येषांतत्त्वपरत्वम् ,सम्यगुक्तम्- “एकालजां परित्यज्य नरः स्वार्थ प्रसाधयेत्” इति / पृथ्वी चेयमृते श्रीरामचन्द्रशासनसमयावहुकालमारभ्यानर्थानां निवासस्थानभूतैवास्ति, येन यत् समीहितं तदेव संपादितं तच्चार्थो वा स्यादनों वा / यस्मिन् काले देशे च प्रजाजनैः यत्किंचिदपेक्षितं तत्साधनार्थ बहवःखलु गुरुशब्दवाच्या घञ्चकाः कटिबद्धाः संजायते. तत्साधनव्याजेनैव महत्तरं गुरुत्वं संमानं धनं च लभन्ते. स्वस्वमार्गेषु प्रजां विविधोद्योगैराकर्षन्ति, प्रजाजनश्चायं विवेकदृष्टिराहित्यात तेषां वश्चकत्वं नावधारयितुं शक्नोति / देशश्चायं प्रायोऽर्थकामैकपरायणोपि परमविरक्तोपवर्गपदाधिकारी न चात्र कोप्येतादृशोस्ति यः खलु नरकादागतो नरकं गच्छति गमिष्यति वा, मद्यमांसादिपरायणा अपि स्वर्गमेव सद्यो गच्छन्ति / अत्र च गोवपामिश्रं घृतं बहुभिर्विक्रीतं क्रीतं भक्षितं चाथाप्ययं देशः परमधार्मिकस्तदुक्तम्- " पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः" इति / एकैककार्षापणार्थमप्यत्र भ्रातृभिरपि सहाभियोगाः प्रवर्तन्ते अथाप्ययं देशः परमसंतोषी / अहर्निशं मिथ्याभाषणपरायणोप्ययं देशः सत्यवादी / गर्भपातनान्यप्यत्र प्रायः पातिव्रत्यपदप्रविष्टानि वर्तन्ते / वेश्यावृन्दबहुलोप्ययं देश पत्नीव्रतधारी / परद्वेषपरायणोप्ययं देशः शान्तिप्रधानः / अत्रत्यप्रधानपुरुषाणां या शरीरयात्रा शयनभोजनमलत्यागादिरूपा सापि देशोपकारायैव, न कोप्यत्र स्वार्थार्थ प्रवर्तते / परस्परप्रेमपकमत्यादिरहितोप्ययं देशः स्वयंशासनाधिकारी / खड्गग्रहणानभिशोपि स्वराज्याभिलाषी, अतिसुकमारोपि सिंहसिंहासनारूढः, बुभुक्षितोपि शूरः, परकण्ठकर्तननिपुणोपि दयालुः, परकीयनीत्यनभिन्लोपि परमनिपुणः, शब्दमात्रेण स्वराज्यप्राप्त्यभिलाषीति मन्ये गीर्वाण एव, सूच्यादिनिर्माणानभिशोपि परं प्रवीणः / निर्जलदुग्धस्य चुलकमात्रमप्यत्रोपलब्धुं न शक्यते अथाप्ययं समृद्धः सत्यव्यापारपरश्च, अन्नहीनोपि शौर्यशक्तिरहितोपि च स्वराज्यं करिष्यति, गुणस्वरूपानभिशोपि गुणैकनिधिः, स्वदोषश्रवणशत्रुरपि निर्दोषः-स्वदोषानभिज्ञत्वमात्रादेव / अत्र हि विद्याविहाना अपि विद्वांसः शास्त्रिशब्दवाच्याश्च, शासनशक्तिरहिता अपि भूपालाः सिंहशब्दवाच्याश्च, स्वर्णसिंहासनारूढा अभियोगपरायणा नरवाहना कोशपुष्टिपराश्च संन्यासिनः विवाहिताराहित्यमात्रं चैषां व्रतम्, अध्ययनहीना यथेच्छं भोगपरा अपि ब्रह्मचारिणः / धर्मसभाधर्मशालापाठशालादिनिर्माणस्वराज्यदेशोद्धाराद्या पत्र देशप्रधानानां निस्पृहाणामाजीविका, परवञ्चनमेव परोपकारः, स्वार्थमेव परमार्थः, धूर्ता एव विद्वांसः, शूद्रा एव गुरवः, श्रीमन्त एव सकलसद्गुणगणार्णवा मानास्पदाश्च, अर्थकामैकपरायणा एव महानुभावा महात्मानस्तदुक्तम् " अन्तः शाक्ता बहिः शैवाः सभामध्ये च वैष्णवाः" इति / तथा- 'कार्ये वा व्यवहारे वा परीक्षा जायते नृणाम् / बाह्यदृष्ट्या जनः सर्वो भासते शुकदेववत्' इति / _____ इत्यादिकं सर्वमेव कृतबुद्धयो वृद्धा विजानन्त्येवेति कृतमनेनाधिकेन कोपोत्पादकलेखेनेत्यलमिति सविनयं विज्ञापयति-. श्रीमताम् सुदर्शनाचार्यशास्त्री काशी.
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy