________________ 62 . धातुप्रदीपः। __षह मर्षणे / 855 / सहते। मेहे। विषहते। परिनिविभ्य इति (8 / 3 / 70) षत्वम्। सिवादीनां वाड्व्यवायेऽपीति (8 / 271) वा षत्वम् / न्यषहत न्यसहत। सर्वसहः। सहिता सोढ़ा। सोढ़ इति षत्वनिषेधः / विसोढ़ः। विसोढुम् / साहः सहः। “स एवायं नागः सहति कलभेभ्यः परिभवम् / " "ततः प्रोदसहन् सर्व" इति तु युजादिपाठात् / (88) रमु क्रीड़ायाम् / 856 / रमते / रेमे / विरमति / व्यरंसोत्। व्यरं. सिष्टाम् / रन्ता। रमणः / रतिः। रामः रमः। अस्योदित्त्वं केचिदिच्छन्ति / तेषां मते रमित्वा रत्वा / ___ इति पात्मनेभाषौ। अनुदात्तौ इमौ। सहिरमी आत्मनेपदिमौ / ज्यलादिकार्यार्थमिह पठ्यते / षदल विशरणगत्यवसादनेषु / 857 / सीदति / निषीदति / विषीदति / ससाद / निषसाद। विषसाद / सेदतुः / सत्ता। असदत् / सादः सदः / भावे घञ्। अवसादः। उपसेदिवान् / सद्रुः / निषहरः। नौ सदेरिति (उण, 2 / 280) वरच / शदलू शातने / 858 / शीयते / शशाद / शेदतः / शल्यति / प्रशदत् / शत्ता। शत्रुः। शादः शदः। शाहलः / शदल शातन इति विशीर्णतायां वर्तते / शातनं विषयभावेन निर्दिश्यते / प्रसिद्धिवशात्। ___ क्रुश आह्वान रोदने च / 858 | क्रोशति / चुक्रोश / अक्रुक्षत् / क्रोष्टा / क्रोशः क्रुशः। कुच सम्पर्धनकौटिल्यप्रतिष्टम्भविलेखनेषु / 860 / कोचति / कोचिता। कोचकः। कोचः कुचः / कुचं वृणोतीति कर्मण्यण (2 / 2 / 1) / पन्येषामपि दृश्यत (6 / 2 / 137) इति पूर्वपदै दीर्घत्वम् / कूचवारः / सोऽभिजनोऽस्येति कोचवार्यः / बुध अवगमने। ( बोधने ) / 861 / बोधति / बोधः बुधः / बुध्यत इति दिवादिपाठात् / कह जन्मनि प्रादुर्भावे / 862 / रोहति / रोह। रोढ़।। अरुक्षत् / पहम् / अवरोहः। रोहः कहः / प्रारूढ़म् / (88) युन पच संयमन इति चुरादिष्वाषीयाः युनादयो विभाषितणिमाः /