________________ धातुप्रदीपः / . 25 क्षिक्षये / 233 / क्षयति / निष्ठायामण्यदर्थ इति दीर्घः (6 / 4 / 60) / चीयो दीर्घादिति (82146 ) नत्वम् / क्षीणः / क्षितम् / क्षेता। क्षि निवासगत्योः क्षिष् हिंसायामिति च गणान्तरे पठ्यते / क्षियति। क्षिणीति / उत्तरधातुसाधयानुरोधेन चाजन्तोऽप्ययमत्र निद्दिश्यते / (45) . क्षीज अव्यक्ते शन्दे / 234 / क्षीजति / अस्यानन्तरं कूजतिनं निर्दिश्यते / कूजते: स्वरप्रयुक्तत्वात् पृथङ् निर्देशः। अन्यस्त्वाह क्षीजकूजोः पृथक् करणादर्थभेदोऽनुसन्धेयः। तथाहि कूजन्ति कपोता इत्युक्ते स्वनन्तौति गम्यते / क्षीजति दासीत्युक्त सखेदं वनतीति गम्यते / एवमन्यत्रापि धातुभेदेऽर्थभेदोऽवगन्तव्यः / लज लजि भने। 235 / 236 / लजति / लञ्जति.। लङ्गः / रङ्गः / डङ्गः। रलयो उलयोकत्वस्मरणमिति। संज्ञायां गवुल् (6 / 3 / 108) लञ्जिका वेश्या। लाज लाजि भत्सने च / 237 / 238 / चकागे भिन्नक्रमः / एतावपि भर्जने पठ्यते इत्यर्थः / लाजति / लाजाः / लाञ्जति / जज जजि युद्धे / 238 / 240 / जजति / जञ्जति / जङ्गः / जङ्गलम् / तुज तुजि हिंसायाम् / 241 / 242 / तोजति / ततोज। तजि पालने च / तुमति / तुतुञ्ज / तुङ्गः / गज गजि एज ग्रजि मुज मुजि शब्दार्थाः / 243-248 / गज मदने च / गजति / जगाज / गजः / गाजः / गञ्जति / गञ्जा। गनः। गर्जति / जगर्ज / जग्रजतुः / जग्यजुः / गर्जः। गृञ्जति / जरीयञ्जाते। मोजति / मुञ्जति / मुन्नः / अच / / ___वज व्रज गतौ / 248 / 250 / वति / ववाज / एत्त्वाभ्यासलोपप्रतिअधश्चास्य चान्द्ररुदाहृतः / ववजतुः / ववजुः / अवजीत् / अवाजीत् / वाजः / व्रजति / वव्राज / अवाजीत् / प्रवजितः। परिव्राट् / व्रजः / व्रज्या / (45) पत्र माधव:-"ह पाठस्तु उत्तरधातुसाम्यादिति मैये प्रतिपादित"मिति / 4