________________ अथ खादय उच्यन्ते / धुज अभिषवे / 1 / अभिषवः सुरासन्धानं सपनं पीड़न सानं मन्थनं तेजनं वा। सुनोति सुनुते / सुन्वे सुनोमि / परत्वाद् गुणे कृते उतश्चप्रत्ययादित्यनुवृत्ती (6 / 4 / 106) लोपश्चास्यान्यतरस्यां म्वोरितुकारलोपो (6 / 4 / 107) न भवति / इह तु गुणाभावाद् भवतुकारलोपः / सुन्वः सुनुवः सुनुवहे सुन्वहेइत्यादि। अभिषुणोति / सुषाव सुषुवे / सोता / अभिसोथति / अभ्यषुणोत् / असावीत् असोष्ट / अभिसुसूषति / अभिसुसूः (1) / सुत्वा / सुत्वानौ / सोमसुत् / राजसूयम् / षिञ् बन्धने / 2 / सिनोति सिनुते / सिषाय सिष्थे / सेषीयते / सिसौषति सिसौषते / विषयः / सितम् / सिनो ग्रासः स्वयमेव / सिता पाशेन शूकरी। शिञ् निशाने। 3 / शिनोति शिनुते / शिशाय शिश्ये / शेता। शितम्। ___ डुमिन् प्रक्षेपण / / / मिनोति मिनुते / ममौ मिम्ये। मिम्य तुः मिम्याते। माता। मास्यति मास्यते / मिनुयात् मिन्वीत। मीयात् मासीष्ट / अमासीत् अमास्त / मित्सति मित्सते / मेमीयते / प्रमाय / प्रमयः / मिनिमम् / प्रमाता। चिञ् चयने / 5 / चिनोति चिनुते। चिकाय चिचाय चिक्ये चिच्थे / चिकौषति चिचौषति / चेचीयते / चाययति चापयति / चिन्वन् चिन्वानः / कायः / निचयः / सञ्चयः / निकायः। निकाय्यम् / अग्निचित् / चित्रम् / चित्रा। चित्रगुः / स्तृञ् आच्छादने / 6 / स्तृणोति स्तृणुते / स्तुणतः स्तृगवाते / निस्तर्ता / तिस्तीति / तास्तय॑ते / स्तुतम् / स्तृत्वा / काञ् हिंसायाम् / 7 / कणोति कणुते / चकार चक्र। चिकीर्षति / चेक्रीयते। कारा बन्धनालयः / (1) अभिपूर्वात् सुनीतः समन्तात् क्विप / अभिमुसूषतीत्यव तु तौतिण्योरित्यनेनैव (8 / 3 / 61) षत्रव्याडत्तिः स्यात्।।