________________ अहूँ 203 U0 BOSS अहँ इत्येतदक्षरम, परमेश्वरस्य परमेष्ठिनो वाचकम, सिद्धचक्रस्यादिबीजम, सकलागमोपनिषद्भूतम, अशेषविघ्नविघातनिघ्नम, अविलदृष्टादृष्टफलसंकल्पकल्पटुमोपमम, आशास्त्राध्ययनाध्यापनावधि प्रणिधेयम्। प्रणिधानं चानेनात्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः। वयमपि चैतच्छास्त्रारम्भे प्रणिदध्महे। अयमेव हि तात्त्विको नमस्कार इति॥१॥ DAN कलामय 'अहं' मङ्गलपाठः