________________ 318 . नमस्कार स्वाध्याय बन्धनादिकष्टे तु विपरीतशङ्खावादिनाक्षरैः पदैर्वा विपरीतं नमस्कार लक्षाधपि जपेत्, क्षिप्रं . क्लेशनाशादि स्यात् / करजापाद्यशक्तस्तु सूत्ररत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेनुल्लङ्घनादिविधिना जपेत् / यतः "अङ्गल्यग्रेण यजप्तं, यजप्तं मेरुलङ्घने / व्यग्रचित्तेन यज्जतं, तत्प्रायोऽल्पफलं भवेत् // 1 // सङ्कलाद्विजने भव्यः, सशब्दान्मौनवान् शुभः। मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः॥२॥ जपश्रान्तो विशेद् ध्यानं, ध्यानधान्तो विशेज्जपम् / द्वयश्रान्तः पठेत् स्तोत्र-, मित्येवं गुरुभिः स्मृतम् // 3 // 10 श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तम् ___"जापस्त्रिविधो मानसोपांशुभाष्यमेदात् तत्र मानसो मनोमात्रप्रवृत्तिनिर्वृत्तः स्वसंवेद्यः, उपांशुस्तु परैरथ्रयमाणोऽन्तः सजल्परूपः, यस्तु परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः, मानसस्य प्रयत्नसाध्यत्वाद् भाष्यस्याधमसिद्धिफल- . वादुपांशुः साधारणत्वात्प्रयोज्यः इति।" नमस्कारस्य पञ्चपदीं नवपदीं वाऽनानुपूर्व्यापि चित्तैकाभ्यार्थे 15 गुणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाधपि परावर्त्यम् / यदुक्तमष्टमप्रकाशे "गुरुपञ्चकनामोत्था, विद्या स्यात् षोडशाक्षरा। जपन शतद्वयं तस्या-, श्चतुर्थस्याप्नुयात् फलम् // 1 // गुरुपञ्चकं परमेष्ठिपञ्चकं षोडशाक्षरा-"अरिहंतसिद्धआयरियउवज्झायसाहु" रूपा / तथा20 शतानि त्रीणि षड्वर्ण, चत्वारि चतुरक्षरम्। - पश्चावणे जपन् योगी, चतुर्थफलमश्नुते // 2 // षड्वर्ण ‘अरिहंत सिद्ध' इति, चतुरक्षरं 'अरिहंत' इति, अवर्णे 'अकार' मेव मन्त्र "प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम्।। फलं स्वर्गापवर्गों तु, वदन्ति परमार्थतः // 3 // " 25 तथा नाभिपमे स्थितं ध्याये, दकारं विश्वतोमुखम् / सिवर्ण मस्तकाम्भोजे, आकारं वदनाम्बुजे // 4 // उकारं हृदयाम्भोजे, साकारं कण्ठपञ्जरे। सर्वकल्याणकारीणि, बीजान्यन्यान्यपि स्मरेत् // 5 // " 30 'असिआउसा' इति बीजान्यन्यान्यपि 'नमः सर्वसिद्धेभ्य' इति / मन्त्रः प्रणवपूर्वोऽयं, फलमैहिकमिच्छुभिः। ध्येयः प्रणवहीनस्तु, निर्वाणपदकांक्षिमिः // 6 // एवं च मन्त्रविद्यानां, वर्णेषु च पदेषु च। विश्लेषं क्रमशः कुर्याः, लक्ष्यभावोपपत्तये // 7 // 35 जापादेश्च बहुफलत्वं, यतः पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिलमो जपः / जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः // 1 //