________________ 204 नमस्कार स्वाध्याय [संस्कत 'नेत्रद्वन्द्वे श्रवणयुगले नासिकाने ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते / ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् नियतविषये चित्तमालम्बनीयम् // [इति प्रथमेन प्रकारेण ध्यानविषयं गतम् // ] [30] ज्वरोत्तारणमन्त्र: 'ॐहाँ नमो लोए सव्यसाहूणं' इत्यादि प्रतिलोमतः। पञ्चभिस्तेज आद्यैश्च मायाप्रेसरपूर्वकैः॥ पटीग्रन्थि परिजप्य, दत्त्वाच्छाध नरोपरि। तेन ज्वरं चोत्तरति, नूत्लवले परं मतम् // [31] पञ्चचत्वारिंशदक्षरा विद्या 'ॐ ही नमो अरिहंताणं, ॐ ही नमो सिद्धाणं, ही नमो आयरियाणं, ॐ ही नमो उवज्झायाणं, ॐ ही नमो लोए सव्वसाहूणं।' एषा पञ्चचत्वारिंशदक्षरा विद्या / यथा न श्रूयते तथा स्मर्तव्या। दुष्टचौरादिसङ्कटमहापत्ति15 स्थाने शान्त्यै, जलवृष्टये चोपांशु भण्यते / पञ्चनामादिपदानां पञ्चपरमेष्ठिमुद्रया जापे समस्तक्षुद्रोपद्रवनाशः कर्मक्षयश्च भवति। [32] देवगणी विद्या-(गणिविद्या)___ॐ अरिहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहु-सव्वधम्मतित्थयराणं ॐ नमो भगवईए सुयदेवयाए संतिदेवयाणं सन्वपवयणदेवयाणं दसहं दिशा(सा)पालाणं पञ्च(ग्रह)लोगपालाणं. ॐ 20 ही अरिहंतदेवं नमः।' एषा विद्या देवगणीति सरस्वतीमन्दिरे जाप्यमष्टोत्तरशतम् / जप्ता सती सर्वेषु कार्येषु सर्वसिद्धिं जयं च ददाति। [33] तस्करभयहरमन्त्र: 'ॐ ही णमो सिद्धाणं, ॐ ही सिद्धदेवं नमः।' म अनेन सप्ताभिमन्त्रिते वस्त्रे प्रन्थिबन्धनीया। पश्चाद् यत्र कुत्रापि महारण्ये तस्करभयं न मवति। [34] व्यालादिविपनाशनमन्त्रः 'ॐ हाँ ह्रीं हूँ हूँ ह्रीं ह्रः णमो सिद्धाणं विषं निर्विषीभवतु फट्।' इत्यनेन व्यालादिविषं नश्यति। [35] व्याल-वृश्चिक-मूषकादिदूरीकरणमन्त्रः 'ॐ गं सिद्धा णमो दूरीभवन्तु नागाः।' इत्यनेन व्याल-वृश्चिक मूषकादयो दूरतो यान्ति। 30