________________ विभाग] पञ्चनमस्कृतिदीपकान्तर्गतनमस्कारमन्त्राः 203 नवाक्षरमिदं बीजमनाहतं समाक्षातम्। एतस्य ध्यानेन सिद्धचक्र मुक्तिस्थितमपि परं ब्रह्म त(य)दगम्यमवाच्यमचिन्त्यं तदपि ध्येयविषयं भवति। तदुक्तं जाप्यं यथारुचितो नानाविधमपि तदेव, सदृशत्वात्। तदुक्तं नेमिचन्द्रसिद्धान्तिकैर्द्रव्यसंग्रहे[अत ऊद्ध पदस्थं ध्यानं मन्त्रवाक्यस्थं यदुक्तं तस्य विवरणं कथयति-] ___ 'पणतीस सोल छप्पण चदु दुगमेकं च जवह झाएह / परमेट्ठिवाचयाणं अण्णं च गुरुवएसेणं // 49 // व्याख्या-पणतीस' "णमो अरिहंताणं; णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं" एतानि पञ्चत्रिंशदक्षराणि सर्वपा(प)दानि भण्यन्ते / 'सोलड' "अरिहंत सिद्ध आचार्य(यरिय) उवज्झाय साहू" एतानि षोडशाक्षराणि नामपदानि भण्यन्ते / 'छ' “अरिहंतसिद्ध" एतानि षडक्षराणि अर्हत्-सिद्धयोर्नामपदे द्वे भण्यते / 'पण' "असिआउसा" एतानि पञ्चाक्षराणि 10 आदिपदानि भण्यन्ते / 'चहु“अरिहंत" इदमक्षरचतुष्टयं नामपदम्। 'दुगं''"सिद्ध" इत्यक्षरद्वयं सिद्धस्य नामपदम् / 'एगं च' "अ" इत्येकाक्षरमहंत आदिपदम् / अथवा "ॐ" एकाक्षरं पञ्चपरमेष्ठिनामादिपदम् / तत् कथमिति चेत् ? 'अरिहंता असरीरा, आयरिया तह उवज्झाया मुणिणो। पढमक्खरनिप्पण्णो, ॐकारो पंचपरमेट्ठी॥ 15 इति गाथाकथितप्रथमाक्षराणां 'समानः सवर्णे दीर्घो भवति' 'परश्चलोपम् ' 'ऊवर्णे ऊ' इति स्वरसन्धिविधानेन ॐशब्दो निष्पद्यते / कस्मादिति–'जवह झारह' एतेषां पदानां सर्वमन्त्रवादपदेषु मध्ये सारभूतानां इहलोकपरलोकेष्टफलप्रदानसमर्थ ज्ञात्या पश्चादनन्तज्ञानादिगुणस्मरणरूपेण वचनोधारणेन च जापं कुरुत / तथैव शुभोपयोगरूपत्रिगुप्तावस्थायां मौनेन ध्यायत। पुनरपि कथंभूता [ना]म् 'परमेट्ठिवाचयाणं'। 'अरिहंत' इति पदवाचकमनन्तझानादिगुणयुक्तोऽर्हद्वाच्योऽभिधेय इत्यादिरूपेण 20 पञ्चपरमेटि(ष्ठि)वाचकानाम् / 'अण्णं च गुरुवएसेण' अन्यदपि द्वादशसहस्रपमितपञ्चनमस्कारग्रन्थकथितक्रमण लघुसिद्धचक्र, बृहसिद्धचक्रमित्यादिदेवार्चनविधान मेदामेदरत्नत्रयाराधकगुरुप्रसादेन शात्वा ध्यातव्यम् / इति पदस्थध्यानस्वरूपं व्याख्यातम् ॥४९॥-इत्येतद् द्रव्यसंग्रहस्य ब्रह्मदेवविरचितव्याख्यात उद्धृतम्] [28] अथाङ्गन्यासः 25 तत्सिद्धयर्थम् असि आ उ सा। 'अ' वर्ण नाभिकमले, सि मस्तककमले, आ कण्ठकजे, उ हृदये, सा मुखकमले / वा-अ नाभौ, सि शिरसि, आ कण्ठे, उ हृदये, सा मुखे।। [29] ॐ कारादीनां ध्यानप्रक्रिया अत्र ॐ नमः सिद्धेभ्यः। ॐ कारः, हीकारः, अकारः, अर्ह इत्यादिकमुक्तं तत् क स्मरणीयम् ? तदेव [कथमपि] 30