________________ 272 टिप्पणानि / 159. 12. सू० 13- “एतेन प्रत्ययभेदभेदित्वादयो व्याख्याताः / " प्र०. स्वो० पृ. 348 160. 8. सू० १५.-"सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः / सिद्धः / स्वभावनियतः स्वनिवृत्तौ निवर्तकः // " प्रमाणवा० 3. 191, 192; प्र० स्वो० पृ० 357 161. 22 अत्र लुप्तटीकांशो तात्पर्यनिबन्धनतो ज्ञेयः / तद्यथा-"अमुमेवार्थ प्रथममित्यादिना विशदयति। तत्रेति सामान्येन स्मृतस्यार्थस्य विशेषे योजने सति। तथा च सतीति सामान्यस्मरणस्य लिङ्गज्ञाने विशिष्टस्मरणस्य च अनुमानज्ञाने सति अविनाभावित्वज्ञानमेव परोक्षार्थप्रतिपादकत्वं नाम युक्त्या संभाव्यत इत्याह। किञ्च निश्चयस्मरणज्ञाने शब्दानामेकार्थताऽवसेया ज्ञानोपाधिलिङ्गधर्मापेक्षया लिङ्गधर्मो ज्ञानोपाधिर्यस्मादेतैः प्रतिपाद्यन्त इति / तेनेति। येन कारणेन साध्याविनाभावित्वनिश्चयनमेव प्रतिपादकत्वव्यापारः तेन हेतुना। ना यत्रेति अन्यस्मिन् साध्यधर्म इत्युक्तमिति वार्तिककृता मूलाचार्येण वा निश्चितपदं कुर्वता। यद्वा एवमुक्तं भवतीति शेषः / कस्मादसमारोपित एव धर्मिणो भेदेपि धर्मयोर्भेदो न स्यात्-इत्याह-साध्येति / यस्मान्निश्चयारूढे विशिष्टविकल्पज्ञानप्रतिभासिनि रूपे साध्यसाधनयो नात्वम् / यदि नामवं स्यात् तथापि समारोपितो भेदः कथमित्याह-निश्चयारूढं चेति / इतरस्मादितरस्माच्च विजातीयाद्वयावृत्तिर्व्यवच्छेदः, तत्कृतेन भेदेन भिन्नमिति / अत्र इतिः तस्मादर्थे / तस्मादन्यत् साधनं तथा साध्यमपि / एतदुक्तं भवति-यदि कृतकत्वानित्यत्वादीनां तादात्म्यसंबन्धो नेष्यते तदा तद्धृवभावित्वं नाशस्य न स्यात् धर्मिणोऽभिन्नत्वे मिथोऽप्यभिन्नत्वं धर्मयोः। न च धर्मिणः सकाशाद्भेद इत्यादिकमन्यत्र प्रतिपादितमिति नेह प्रतन्यते / " तात्पर्प० पृ० 101 . 169. 3. सू० 30 "न हि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः, तनिवृत्तौ वा निवृत्तिः।" हेतु० पृ० 56 172. 7. सू० 34. अत्र पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः।" इत्यादि हेतु० पृ० 55; "तत्पक्षवचनं वक्तुरभिप्रायनिवेदने / प्रमाणं संशयोत्पत्तेस्तत: साक्षान्न साधनम् // साध्यस्येवाभिधानेन पारंपर्येण नाप्यलम् / " प्रमाणवा० 4.16-17 / प्रक्षप्रयोगसमर्थनार्थ द्रष्टव्या न्यायमं पृ० 571 172. 16 'स्वयूथ्यः- "अवश्यमेव न निर्दिश्य इति भणता न ह्ययं नियमो यदवश्यं पक्षो निर्दिश्यः इत्यन्यव्याख्योपहसितेति यतोऽस्मिन् व्याख्याने पाक्षिकः पक्षनिर्देशोऽनुमत एव / स चायुक्त इत्युक्तं वक्ष्यति च ।"-तात्पर्य० पृ 106 172. 18. 'वादन्यायस्य-वादन्याय पृ० 65 176. 8. 'अर्थ'-“गम्यार्थत्वेपि साध्योक्तेरसंमोहाय लक्षणम् / " प्रमाणवा० 4. 28 176. 10. 'विप्रतिपत्तिनिराकरण'-"विप्रतिपत्तिनिराकरणार्थमिति ब्रुवताऽन्यव्याख्या-'एतच्च नियतपदार्थकथायां द्रष्टव्यम्, प्रपञ्चकथायां तु पक्षनिर्देशेपि न कश्चिद् दोषः' इत्याद्यपास्ता।" तात्पर्य० पृ० 107