________________ 266 टिप्पणानि / 62. 29. "इह पूर्वः' "तदस्तीति कुतोऽधिगतमित्याशङक्य विकल्पोदयादिति साधनमाचार्यज्ञानगर्भेणोक्तम् / अपरेणेदं नीलादिरिति प्रवर्तकमधिमुक्तिलक्षणम् / तदन्येनागमोक्तं संभाव्यते-इत्युक्तं तदेषां सर्वेषां पूर्वपक्षसमाधिरभिधीयते ।"-तात्पर्य० पृ० 27; "तदेतद् धर्मोत्तरेण आगमसिद्धं दर्शयता आचार्यज्ञानगर्भप्रभृतीनां मानससिद्धये यत् प्रमाणमुपन्यस्तं विकल्पोदयादिति तद्भङ्गयावधारणादेव दूषितम् / " न्याय० टि० पृ 30 / 64. 2. सू. 10. 'अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक्। तेषामतः स्वसंवित्ति भिजल्पानुषङ्गिणी // " प्रमाणवा० 2. 249; "अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ?" प्रमाणवा० 2. 444 64. 5. 'नास्ति'-सौत्रान्तिकस्यालयविज्ञानाभावोऽभिमत इत्याह नास्तीति / " तात्पर्य० पृ 31 65. 1. 'आन्तराः'-"तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः / संवेदनं न यद्रूपं न हि तत् तस्य वेदनम् // " प्रमाणवा० 2. 274; 65. 3. 'प्रत्यक्षम्'--"एतच्च स्वसंवेदनसिद्धौ व्यासतो ज्ञेयम् / " तात्पर्य० पृ० 32. 66. 2. 'ज्ञानमेव'-"तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः / तत् सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् / / " प्रमाणवा० 2. 251. सुखादेर्ज्ञानरूपत्वनिराकरणार्थं द्रष्टव्या-न्यायमं० पृ०७४ / तथा न्यायवार्तिकतात्पर्यटीकापि-(पृ० 80) द्रष्टव्या / 66. 3. 'आत्मनः'-'तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् / वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् // " प्रमाणवा० 2. 266. 67. 2. सू० 11. “प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् / विधूतकल्पनाजालं स्पष्टमेवावभासते // " प्रमाणवा० 2.281 68. 2. 'संनिहितस्येव'-"कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव // अशुभा पृथिवी कृत्स्नाद्यभूतमपि वर्ण्यते। स्पष्टाभं निर्विकल्पं च भावनाबलनिर्मितम् // " प्रमाणवा० 2. 282, 284 68. 9. 'प्रमाणवातिके'-प्रमाणवा० 1. 34; 1. 36; 1. 122-287 69. 3. 'विकल्प'-"न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता // " प्रमाणवा० 2.283 70. 6. 'विषय-"मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः / अर्थक्रियायां केशादिर्नार्थोऽनधिमोक्षतः // सदृशासदृशत्वाच्च विषयाविषयत्वतः। शब्दस्यान्यनिमित्तानां भावे धी सदसत्त्वतः / / अर्थक्रियासमर्थं यत् तदत्र परमार्थसत् / अन्यत् संवृतिसत् प्रोक्तं ते स्व-सामान्यलक्षणे // " प्रमाणवा० 2. 1-3 / न्याय० ता० पृ० 12-13. 71. 1 'ग्राह्यः'-भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् // कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् / तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते // " प्रमाणवा० 2. 247, 248; हेतुभावादृते नान्या ग्राह्यता नाम काचन / तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्ममुच्यते // " प्रमाणवा० 2. 224.