________________ टिप्पणानि। 10 2. पं. 4 'स्यावेतत्'-"नमस्कारश्लोककरणे च आक्षेपपरिहारौ धर्मोत्तरप्रदीपोदितनीतिदिशा अनुगक्तव्यौ।"-इत्यनेन हेतुबिन्दुटीकालोके (पृ० 233) अयमेवांशो निर्दिष्टः / ___5. 8. विनीतदेव-शान्तभद्रौ'-"सम्यग्ज्ञानेत्यादिवाक्येन प्रयोजनप्रयोजनमभिहित- मित्यन्यव्याख्यां भङ्गया दूषयितुमाह-सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति / " तात्पर्य० पृ० 2.; “सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति ।"-न्याय० टि० पृ० 3. 12. 12. 'अथ भोजनादे:'-तुलना-तात्पर्य० पृ० 5. 14. 5. 'ज्वरहर' तुलना-न्याय० ता० पृ० 3 17. 1. 'अविसंवादक'-"अविसंवादनार्थोऽत्र सम्यग्ज्ञानार्थः / न तु यदविपरीतं तत्सम्यग्ज्ञानमिति / एवं हि योगाचारमतनिराकरणेन प्रकरणं प्रवृत्तं स्यात्। तन्मतेन तु 'सर्वमालम्बने भ्रान्तं मुक्त्वा ताथागतं ज्ञानम्'। सौत्रान्तिकपक्षेपि प्रत्यक्षमेवैकं सम्यग्ज्ञानं स्यात्, नानुमानम् , स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेः / " तात्पर्य० पृ० 8 / प्रमाणलक्षणे नैयायिकानामनुपपत्त्यर्थं द्रष्टव्या न्यायमं० पृ० 23. 17. 1. 'ज्ञानम्' अत्र नैयायिकानामनुपपत्तिर्यथा-"ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते। बोधो खलु प्रमाणस्य फलं न साक्षात् प्रमाणम् / " न्यायमं० पृ० 15. 19. 2. 'अनधिगतविषयम्'-"अविज्ञाते स्वलक्षणे। यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः॥"-प्रमाणवा० 1. 8. "तस्मात् 'अनधिगतार्थविषयं प्रमाणम्' इत्यपि 'अनधिगते स्वलक्षणे' इति विशेषणीयम् ।"-हेतु० पृ० 53. अत्र वाचस्पति:--"अनधिगतार्थगन्तृत्वं च धारावाहिकविज्ञानानामधिगतार्थगोचराणां लोकसिद्धप्रमाणभावानां प्रामाण्यं विहन्तीति नाद्रियामहे / " . इत्यादि-न्याय० ता० पृ 15. 19. 4. किमन्येन'-"निष्पादितक्रिये किञ्चिद् विशेषमसमादधत् / कर्मण्यन्द्रियमन्यद्वा साधनं किमितीष्यते।"-प्रमाणवा० 2. 241 / 19. 4. 'अधिगतविषयम्'-"गृहीतग्रहणान्नेष्टं सांवृतं"-प्रमाणवा० 1. 5. 20. 17. 'सांव्यवहारिकस्य'-"प्रामाण्यं व्यवहारेण" प्रमाणवा० 1. 7. / “सांव्यवहारिकस्य प्रमाणस्य लक्षणं संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोऽनवगीतः सर्वस्य। साध्यसाधनयोरेकव्यक्तिदर्शने समस्ततज्जातीयतथात्वव्यवस्थानं संवादमवधारयन्ति व्यवहारः। तदनुरोधात् प्रामाण्यं व्यवस्थाप्यते / तत्त्वतस्तु स्वसंवेदनमीत्रमप्रवृत्तिनिवृत्तिकम् ।"-मनो० 1. 7. 20. 25 'निराकरिष्यते'-द्रष्टव्यं पृ० 22. पं० 4; तथा पृ० 85. पं० 3. 23. 2. 'अर्थक्रियार्थिभिः'-"स्वलक्षणविचारतः” प्रमाणवा० 1. 8. / "अर्थक्रिया• योग्यविषयत्वात् तदर्थिनां प्रवृत्तेः” हेतु० पृ० 53. 24. 1. 'उक्तम्'-द्रष्टव्यं-पृ० 19. पं० 1.