________________ 584 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका / अतः काञ्चनमयवह्नयभावरूपात् बाधात् तत्राभासत्वम् / व्यधिकरणप्रकारावच्छिन्नप्रतियोगिकश्चात्र अभाव इति चेत्, न, वस्तुतो व्यभिचारस्यापि तत्र सत्त्वात्।। ज्ञानं च तस्य बाधस्येवानुमित्यनन्तरमेव / किञ्च वह्नौ काञ्चनमयत्वस्यानुमितावेव भाने काञ्चनमयवह्निमान् इति अनुमितिर्न स्यात् विशिष्टस्य पूर्वमज्ञानात् वह्नौ काञ्चन- . मयत्वांशेऽनुमितेराभासत्वं वह्नौ लिङ्गस्यासिद्धेः व्यभिचाराच्च। उपसंहरति - अत इति। ननु काञ्चनमयत्वं विशेषणं प्रतियोगितावच्छेदकं वह्नौ अवर्तमानं कथं भवति ?, प्रतियोग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदकः इत्यत आह - व्यधिकरणेति / तथा चैतादृश(शा)भाववादिमतेनायं बाध इत्यर्थः / इदं मतं दूषयति - वस्तुत इति / पूर्वोक्तस्य बाधस्य न व्यभिचारापेक्षया वस्तुसङ्करो' नास्ति, वस्तुतो व्यभिचारस्य विद्यमानत्वात् / यथा काञ्चनमयत्वविशिष्टवढ्यभाववति पर्वते धूमस्य विद्यमानत्वात् इति कृत्वा [298 B] तत्र व्यभिचार एव / ज्ञानासङ्करोऽपि नास्तीत्याह - ज्ञानं चेति। तथा च काञ्चनमयेत्याधुक्तवढ्यनुमित्यनन्तरं यथा बाधावतरणं तथा तदनन्तरं व्यभिचारज्ञानामापि तत्र सम्भवतीति। दूषणान्तरं भेदो(दे)ऽऽह - किञ्चेति / तथा चानुमितेः पूर्वं काञ्चनमयत्वे तत्र ज्ञानं न च / यदि काञ्चनमयत्वविशिष्टो वह्निर्न ज्ञातस्तदा काञ्चनमयत्वा(त्व)वह्निविशेषणकाऽनुमितिर्न स्यादित्याह - विशिष्टस्येति / यदि पूर्व ज्ञातस्तदा काञ्चनमयत्वविशिष्टवढ्यभाववति हेतुज्ञानं व्यभिचारज्ञानमेवेति न बाधोऽत्रेत्यर्थः / दूषणान्तरमाह - वह्राविति / तथा च वह्रौ काञ्चनमयत्वांशे यत् आभासत्वं बाधाधीनमित्युक्तं तन्न सम्भवति / कथम् ? वह्नौ या काञ्चनमयत्वानुमितिः सा लिङ्गं धूमरूपं वह्नौ नास्त्येव पर्वते विद्यमानत्वात् धूमस्येति कृता(त्वा) स्वरूपासिद्ध [एवेत्यर्थः / अथ काञ्चनमयत्वांशे धूमस्य व्यभिचारात् व्यभिचारोऽपीत्याह - व्यभिचाराच्चेति / काञ्चनमयत्वाभाववति पर्वते धूमस्य विद्यमानत्वात् व्यभिचार इति भावः। न चानुमितेर्विषयाभावाधीनमप्रमात्वम्, किन्तु हेत्वाभासाधीनम् / यस्य हि ज्ञानमनुमितिप्रतिबन्धकं स हेत्वाभासः / न च साध्याभावो ज्ञात: प्रतिबन्धक इति न स हेत्वाभासः / वस्तुतस्तु उपनीतस्यानुमितौ भाने मानाभावः प्रत्यभिज्ञादौ च प्रतीतिबलेन तत्कल्पनम्। पूर्वोक्तमनुमितेराभासत्वं हेत्वाभासाधीनमिति यदुक्तं तत् दूषयति - न चेति। तथा चानुमितेर्यत् आभासत्वं तत् विषयाभावाधीनम्, विषयश्च काञ्चनमयत्वं तदभावाधीनम्, न तु सर्वत्र हेत्वाभासाधीनम् / दूषणान्तरमाह