________________ 541 हेत्वाभासप्रकरणे सत्प्रतिपक्षः पाषाणवत्त्वे व्याप्तिविशिष्टपक्षधर्मता प्रमा न सम्भवति। न च व्याप्तिविशिष्टपक्षधर्मताज्ञानं भ्रमरूपं वक्तव्यम् / यथा वह्नयभावव्याप्यपाषाणवत्त्ववान् अयम् इति परामर्श इति न वाच्यम्, सचन सम्भवति। कथम् ? विशिष्टस्याप्रसिद्धत्वात्। न हि वह्नयभावव्याप्यपाषाणवत्त्वं कुत्रापि प्रसिद्धम्, पाषाणवत्त्वस्य वन्यभावव्याप्यत्वाभावात्, इत्यप्रसिद्धो विशिष्टः। यद्यप्ययं पक्षविशेष्यको वह्नयभावव्याप्यपाषाणवत्त्ववान् अयम् इतिरूपोऽप्रसिद्धत्वात् न सम्भवति तथापि हेतुविशेष्यकः परामर्शः सम्भवति।वह्नयभावव्याप्यत्वं ह्रदत्वे प्रसिद्धम्, तच्च पक्षवृत्तिनिपाषाणवत्त्वे आरोप्यते इतिप्रमितस्य विशेषणांशस्यारोपः ।अथवा पर्वतवृत्तिपाषाणत्वं यत् पाषाणे प्रसिद्धं तस्यारोपो वह्नयभावव्याप्ये ह्रदत्वे क्रियते यथा इदं ह्रदत्वं पर्वतवृत्तिपाषाण [278B] इति, ततो हेतुविशेष्यकः परामर्शः सम्भवति। यथा पर्वतवृत्तिपाषाणो वह्नयभावव्याप्य इति वाच्यम्। तत्रेदं दूषणम्, यतो हेतुविशेष्यकपरामर्शस्यानुमितिकारणत्वं नास्ति यतोऽनुमितिसमानविशेष्यकएव परामर्शोऽनुमितिकारणं यथा पर्वतोवह्निमान् वह्निव्याप्यधूमवांश्चायं पर्वत इति तद्वत् अत्र पर्वतविशेष्यिका यदि अनुमितिस्तदा पर्वतविशेष्यक एव परामर्शः कारणं न तु हेतुविशेष्यकः, ततो हेतुविशेष्यकः परामर्शः कारणं न भवतीत्युक्तम्। दूषणान्तरं तु यथा भवतु हेतुविशेष्यकः परामर्शोऽनुमितिकारणं तथापिस एव न सम्भवति यथा इदं द्रव्यम् आकाशात् इत्यत्रसाध्यव्याप्ये हेतौ पक्षवृत्तित्वारोपः इदमपि न सम्भवति आकाशे व्याप्तिपक्षधर्मयोरभावात् पक्षवृत्तिन्यपि हेतौ साध्यव्याप्यत्वारोपोऽपिन सम्भवति, आकाशे पक्षवृत्तित्वमपि नास्ति साध्यव्याप्यत्वमपि नास्ति इति कृत्वा हेतुविशेष्यकपक्षविशेष्यकोभयरूपपरामर्शो नसम्भवतीतिसत्प्रतिपक्षोनसम्भवतीत्युक्तंभवति।विशेषश्चेतिमूलफक्किका व्याचष्टे - विशेष इति। ननु विशेषश्चनव्याप्तिभङ्गाभङ्गरूपः इति मूलमयुक्तम्, सत्प्रतिपक्षे वस्तुतो व्याप्तिभङ्गाभङ्गस्यैव विद्यमानत्वात् / यथा पर्वतो वह्निमान् धूमात् पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र वस्तुगत्या एकत्र पाषाणवत्त्वेव्याप्तिभङ्गः अपरत्रधूमेव्याप्त्यभङ्गः, ततो व्याप्तिभङ्गाभङ्गौवर्तेतेनइति मूलमयुक्तम् इत्यन्यथा व्याचष्टे -अनिर्धारित इति टीका / तथा च व्याप्तिभङ्गाभङ्गरूपो विशेषोऽनिर्धारितो न वाच्यः / कुतः ? एकत्र भङ्गनियमादिति। ननु तथापि व्याख्यानस्यार्थस्य नोत्तरमिदम् यतः पूर्वमनिर्धारित इति शेष इति व्याख्यानम्, तत्र नेदमुत्तरमित्यत आह - तथा चेति टीका / तथा चान्यतरत्वेन रूपेणात्र निर्धारणं वर्तते एव उभयोर्मध्ये एकत्र व्याप्तिभङ्गाभङ्गयोरवश्यं सम्भवादित्यर्थः / सत्प्रतिपक्षग्रन्थे सिद्धान्तप्रतीकं यथा अन्याधिकरणेति टीका / समानपदस्य कृत्यमाह - अन्येति टीका / यथा पर्वतो वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् अत्र उभयोर्व्याप्तिपक्षधर्मतोपस्थितिर्जाता। अथ च धूमेऽनुकूलतर्कावतारो जातस्तत्रानुकूलतर्कावतारवता प्रथमेन प्रबलानुमानेन द्वितीयस्य तर्कशून्यस्य बाधः क्रियते एव, स(अ)तस्तत्र सत्प्रतिपक्षत्वं नास्तीत्यसत्प्रतिपक्षेऽपि सत्प्रतिपक्षलक्षणगमनादतिव्याप्तिरतस्तद्वारणार्थमाह - समानेति / तथा च यत्र द्वयोर्हेत्वोर्मध्ये एकत्रानुकूल