________________ परस्मैधातवः 105-121] स्वोपचं धातुपारायणम् / चक्त्वा चश्चित्वा / क्तयोः चक्तः चक्तवान् / घनि चकः / अचि चच्चा तृणपुरुषः / उणादौ "मृदिकन्दि-" (उ०४६५) इत्यले चञ्चलः। चाचल इति तु चलेर्यङन्तादचि रूपम् , अत्र लस्यानुनासिकत्वाभावपक्षे पूर्वस्य म्वभावः, अनुनासिकत्वे तु मौ चञ्चल इत्यपि / “भृ-मृ-तृ-त्सरि-"(उ० 716) इत्युप्रत्यये चञ्चुः // तञ्चू / तञ्चति / तक्त्वा तञ्चित्वा। तक्तः तक्तवान् / उणादौ "ऋज्यजि-" (उ० 388) इति रे तक्रम् // त्वञ्चू / त्वञ्चति / त्वक्त्वा त्वञ्चित्वा // मञ्चू / मञ्चति / 5 अचि मञ्चः / मक्त्वा मञ्चित्वा / क्ते मक्तः। मचुङ् धारणोच्छ्राय-पूजनेषु च मञ्चते॥ मुञ्चू। मुञ्चति / मुक्त्वा मुञ्चित्वा // ग्रुञ्चू / ग्रुञ्चति / मुक्त्वा मुश्चित्वा // चू / मोचति / अद्यतन्याम् “ऋदिच्छि-स्तम्भू-मुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-जो वा" 3 / 4 / 65 / इत्यङि अZचत् , अम्रोचीत् / मुक्त्वा, सेटः क्त्वो “वौ व्यञ्जनादेः-" 4 / 3 / 25 / इति वा कित्वे झुचित्वा मोचित्वा // __ म्लुचू / म्लोचति / अम्लुचत् अम्लोचीत् / म्लुक्त्वा म्लुचित्वा म्लोचित्वा / “मूलविभुजा-" 5 / 1 / 10 144 / इति निपातनात् के मलिनं म्लोचति मलिम्लुचः // ग्लुञ्चू / ग्लुञ्चति / अग्लुचत् अग्लुध्वीत् / ग्लुक्त्वा ग्लुञ्चित्वा॥ पस्च / “षः सो-"२।३।९८। इति षस्य सत्वे "सस्य शषौ" 1 / 3 / 61 / इति सस्य शत्वे च सश्चति / षोपदेशत्वाद् णौ सनि षत्वे सिषश्चयिषति; सनि षत्वापन्ने "णि-स्तोरेवा-"२।३।३७। इति नियमात् षत्वाभावे सिसश्चिषति / यङि सासश्यते / यङ्लुपि सासश्चीति सासक्ति; दिवि असासक्, अत्र "ड्-नः सः त्सोऽश्चः" 1 / 3 / 18 / इति श्चो वर्जनाद् 5 "दन्त्यसकारापदिष्ट कार्य तदादेशस्य तालव्यस्यापि भवति" इति “संयोगस्यादौ-"२।१।८८। इति शस्य लुकि चस्य कत्वम् // 117 ग्रुचू 118 ग्लुचू स्तेये / गतावपि केचित् / प्रोचति / वा अङि अगुचत् अग्रोचीत् / मुक्त्वा गुचित्वा प्रोचित्वा / / ग्लुचू / ग्लोचति। अग्लुचत् अम्लोचीत् / ग्लुक्त्वा ग्लुचित्वा ग्लो. चित्वा / घनि ग्लोचः, लक्ष्यानुरोधात् कत्वाभावः // 20 - अथ छान्ता एकादश सेटश्च 119 म्लेछ अव्यक्तायां वाचि। "स्वरेभ्यः" 1 / 3 / 30 / इति छस्य द्वित्वे म्लेच्छति / मिम्लेच्छ / अचि म्लेच्छः / यङ्लुपि मेम्लेष्टि; वस्मसोः “अनुनासिके च-" 4 / 1 / 108 / इति छस्य शत्वे मेम्लेश्वः मेम्लेश्मः, निरनुनासिकत्वे तु शत्वाभावे मेम्लेच्छः; दिवि अमेम्लेट् / "क्षुब्ध-विरिब्ध-"४।४।७०। इति निपातनात् के लिष्टमविस्पष्टम् , म्लेच्छितमन्यत् // 120 लछ 121 लाछु लक्षणे / छस्य द्वित्वे लच्छति, लक्षयतीत्यर्थः, अङ्कयतीति वा // लाछु / उदित्त्वाद् नागमे लाञ्छति, स एवार्थः। क्विपि लान् / यङ्लुपि लालांष्टि; क्विपि “अनुनासिके च-" 4 / 1 / 108 / इति शत्वे संयोगान्तलोपे लालान् / अनटि लाञ्छनम् // 1 लक्षयतीत्यर्थः , अङ्कयतीति वा योऽर्थः / / 25