________________ परस्मैधातवः 28-38] स्वोपर्श धातुपारायणम् / .30 ध्यै चिन्तायाम् / मातुायति, मातरं ध्यायति, "स्मृत्यर्थ-" 2 / 2 / 11 / इति कर्मणो वा व्याप्यत्वम् / अशित्यात्वे दध्यौ / अनुस्वारेत्त्वाद् नेट, ध्याता / णौ ध्यायति वनगुल्मं कोकिलः,ध्यापयत्येनं वनगुल्मः, अत्र "अणिक्कर्म-" 3 / 3 / 88 / इति स्मृत्यर्थवर्जनादात्मनेपदं न भवति / दुष्टं मां च ध्यायतीति “आतो डो-" 5 / 1 / 76 / इति डे दूव्यः माढ्यः, आध्यायन्ति तमिति "स्थादिभ्यः-" 5 / 3 / 82 / इति के आढयः, पृषोदरादित्वात् साधवः / सन्ध्यायन्त्यस्यामिति "स्थादिभ्यः-"५।३।८२। 5 इति के सन्ध्या / मां ध्यायतीति डे मध्यम् / “व्यञ्जनान्तस्था-"४।२।७१। इति ध्यावर्जनात् क्तयोस्तस्य नत्वाभावे ध्यातः ध्यातवान् / “दिद्युद्दहत्-" 5 / 2 / 83 / इति निपातनात् विपि ध्यायतीत्येवंशीला धीः / उणादौ "तीवर-" (उ० 444) इति निपातनात् वरटि धीवरः / "ध्या-प्योर्धी पी च" (उ० 908) इति कनिपि धीवा // 31 ग्लै हर्षक्षये / इह हर्षक्षयो धात्वपचयः / ग्लायति / अशित्यात्वे जग्लौ। अनुस्वारेत्त्वाद् 10 नेट, ग्लाता / “संयोगादेर्वाऽऽशिष्येः" 4 / 3 / 95 / ग्लेयात् ग्लायात् / णौ "ज्वल-हल-"४।२।३२॥ इत्यनुपसर्गस्य वा इस्वत्वे ग्लपयति ग्लापयति / “व्यञ्जनान्तस्था-"४।२।७१। इति क्तयोस्तस्य नत्वे ग्लानः ग्लानवान् / “स्था-ला-" 5 / 2 / 31 / इति स्खौ ग्लायतीत्येवंशीलो ग्लास्नुः / “ग्ला-हा-" 5 / 3 / 118 / इत्यनौ ग्लानिः / ग्लायतावुपपदे "शक-धृष-"५।४।९०। इति तुम् , ग्लायति भोक्तुम्। उणादौ "ग्ला-नुदिभ्यां डौः” (उ० 868) ग्लौश्चन्द्रः // . 32 म्लैं गात्रविनामे / विनामः कान्तिक्षयः / म्लायति / अशित्यात्वे मम्लौ। अनुस्वारेत्त्वाद् नेट् , म्लाता / म्लेयात् म्लायात् / म्लानः / “स्था-ला-म्ला-" 5 / 2 / 31 / इति स्नौ म्लास्नुः / ये तु म्लायतेरपि “ग्ला-हा-"५।३।११८। इत्यनिमिच्छन्ति तन्मते म्लानिः // 33 3 न्यङ्गकरणे। कुत्सितमङ्गं न्यङ्गम् / द्यायति / अशित्यात्वे दद्यौ / अनुस्वारेत्त्वात् नेट् , द्याता। येयात् द्यायात् / द्यानः // 34 3 स्वप्ने / द्रायति / अशित्यात्वे दद्रौ / अनुस्वारेत्त्वात् नेट् , द्राता। द्रेयात् दायात् / . निद्राणः / “शीङ्-श्रद्धा-" 5 / 2 / 37 / इत्यालौ निद्राणशीलो निद्रालुः / “उपसर्गादातः"५।३।११०। इत्यङि निद्रा / तारकादित्वात् इते निद्रितः / द्रांक कुत्सितगतौ द्राति, निद्राति // 35 धै तृप्तौ / भ्रायति / अशित्यात्वे दध्रौ / अनुस्वारेत्त्वात् नेट् , भ्राता / "ऋ-ही-त्रा" 4 / 2 / 76 / इति क्तयोस्तस्य वा नत्वे ध्राणः भ्राणवान् , भ्रातः भ्रातवात् / धेयात् ध्रायात् // 36 37 - 38 रै शब्दे / कायति / अशित्यात्वे चकौ / अनुस्वारेत्त्वाद् नेट्, काता। उणादौ "भीण्शलि-" (उ० 21) इति के काकः // मैं। गायति / अशित्यात्वे जगौ / क्ये 1 ननु अत्र "नामिनो गुणः” 4 / 3 / 1 / इति कथं न गुणः ऐकारस्यापि नामित्वाद् ! इति चेत् 'ऐकारोपदेशवलान्न गुणः' इति सिद्धहेमबृहदवृत्तौ 4 / 3 / 1 / सूत्रे, यद्वा 'गुण इति सान्वयसम्ज्ञासमाश्रयणात् न गुणः, ऐकाराद् एकारस्य हीनत्वात्' इति क्रियारत्नसमुच्चये // 2 “तदस्य सखातं तारकादिभ्य इतः" // 1 // 138 / इति सूत्रम् // 16 90 25 80