________________ 13 परस्मैधातवः 21-27] स्वोपझं धातुपारायणम् / (उ०२७) इत्यके सरकः। "सृणीका-” (उ०५०) इतीके निपातनात् सृणीका। "दिव्यवि-" (उ० 142) इत्यटे सरटः / “-कृ-तृ-" (उ० 173) इत्यण्डे सरण्डः कृमिजातिः / “सर्तेर्णित्" (उ० 230) इति थे सार्थः / “सर्तेः षपः" (उ० 313) सर्षपः / “सर्तेोऽन्तश्च" (उ० 478) इति कित्याले सृगालः / “लटि-खटि-" (उ० 505) इति वे सर्वः / “ऋद्-घृ-सू-" (उ० 635) इति किति णौ सृणिः / “ऋ-ह-सू-" (उ० 638) इत्यणौ सरणिः / “सारेरथिः” (उ० 670) 5 सारयतीति सारथिः। “सर्तेरय्वन्यू" (उ० 803) सरयुः, सरयूः, सरण्युर्मेघः / “सर्तेरड्" (उ० 878) सरड् वृक्षः / “हृ-स-रुहि-" (उ० 887) इति सरित् / “अस्” (उ० 952) इत्यसि [सरः जलाशयः] / अद्भयः सरन्ति स्म अप्सरसः, बाहुलकाद् भूतेऽपि साधुः // 26 प्रापणे च / चकाराद् गतौ / "श्रौति-" 4 / 2 / 108 / इति ऋच्छादेशे ऋच्छति, प्रार्छति / सम्पूर्वात् “समो गम्-" इत्यात्मनेपदे समृच्छते / क्ये अर्यते / “अव्यर्ति-" 3 / 4 / 10 / 10 इति यङि अरार्यते, अत्र "क्य-यङाशीर्ये" 4 / 3 / 10 / इति गुणः / आरतुः आरुः, अत्र “संयोगादर्तेः" 4 / 3 / 9 / इति गुणः / “सर्त्यर्तेर्वा" 3 / 4 / 61 / इत्यङि आरत् , पक्षे आर्षीत् / णौ "अर्तिरी-" 4 / 2 / 21 / इति पौ अर्पयति / अनुस्वारेत्त्वाद् नेट् , अर्ता / “हनृतः स्यस्य" 4 / 4 / 49 / इतीटि अरिप्यति / थवि "ऋ-वृ-व्ये-ऽद इट्"४।४।८०। आरिथ / सनि “ऋ-स्मि-पूङ-" 4 / 4 / 48 / इतीटि अरिपंति / "ऋ-ही-घा-" 4 / 2 / 76 / इति तयोर्वा नत्वे ऋणमधमर्णदेयम् , अन्यत्र ऋतम् / “स्वामि- 15 वैश्येऽयः" 5 / 1 / 33 // इति ये अर्थः स्वामी वैश्यो वा, अन्यत्र घ्यणि आर्यः / “लू-धू-सू-खनि-" 5 / 2 / 87 / इतीत्रे अरित्रम् / “भिदादयः" 5 / 3 / 108 / इत्यङि निपातनात् आरा / उणादौ “घृवी-हा-" (उ० 183) इति किति णे ऋणम् / “चिक्कण-कुक्कण-" (उ० 190) इत्यणे निपातनात् उरणो मेषः / अंक गतौ इत्यस्य तु इयर्ति // 27 द प्लवन-तरणयोः। प्लवनं मन्जनम् , तरणमुल्लङ्घनम् / तरति / क्ये तीर्यते / “स्कृच्छृतोऽ- 20 कि-" 4 / 3 / 8 / इति गुणे "तृ-त्रप-" 4 / 1 / 25 / इत्यत एत्वे च तेरतुः तेरुः / अनुस्वारेत्त्वाभावाद् इड् , “वृतो नवा-"४।४।३५। इतीटो वा दीर्घः, तरिता तरीता / सनि “इवृध-"४।४।४७। इति वेद, तितरिषति तितरीपति तितीर्षति / आशिषीटो दीर्घत्वप्रतिषेधात् तरिषीष्ट / “ऋवर्ण-" 4 / 4 / 57 / इति नित्यमिड्निषेधात्किति तीर्खा / यडि तेतीर्यते / यङ्लुपि तातति / णके तरतीति तारकः, तारिका / "तारका-वर्णका-"२।४।११३॥ इति निपातनाद् इत्वाभावे तारका ज्योतिः। "भृ-वृ-जि-"५।१।११२। 25 __1 "आपोऽपाप्ताप्सराजाच" (उ०९६४) इति सूत्रेण 'आप्लृट् व्याप्तौ' इत्यस्य अस्प्रत्यये अप्सरआदेशे चापि अप्सरसः देवगणिकाः // 2 ननु"-प्राक्तु स्वरे-" 4 / 11 / इति वचनात् कथं गुणात्प्राग् न द्वित्वम् ? उच्यते, स्वरादित्वाद्धातोद्धितीयांशस्येटो द्वित्वे कर्तव्ये द्वित्वनिमित्तस्य स्वरस्याभावाद् द्वित्वात् प्राग् गुण एव // 3 इति ये वा. मु. नास्ति॥ 4 अत्र "नामिनोऽनिट्" 4 / 3 / 33 / इति सनः किन्वाद् इर् // 5 "वृतो नवाऽनाशी:-" 4 // 4 // 35 // इत्यनेन सूत्रेण // 6 यङि सं१ सं२ तपा० नास्ति / 30