________________ 415 ] धातुपारायणे चुरादयः (9) . [ 357 बहुलमेतनिदर्शनम् , यदेतद् भवत्यादिधातुपरिगणनं तबाहुल्येन निदर्शनत्वेन ज्ञेयम् / तेनाऽत्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राः, चुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः / वर्धते हि धातुगणः, यल्लक्ष्यम् // मिलन्त्याशासु जोमूता, विक्लवन्ते दिवि ग्रहाः। उपक्षपयति प्राट्, क्षीयन्ते कामिविग्रहाः / / इत्यादि / मुसलक्षेपहुङ्कार स्तोभैः कलमखण्डिनि / कुचविष्कम्भमुत्तभ्नन्निस्कुभ्नातीव ते स्मरः // नीपानन्दोलयन्नेष, प्रेड्डोलयति मे मनः / पवनो विजयन्नाशा, ममाशामुच्चुलुम्पति // तावत् खरः प्रखरमुल्ललयांचकार // (शिशुपाल० 5 / 7) यद्वा भूवादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति / चुरादिपाठस्तु निदर्शनार्थः, यदाहुः - निवृत्तप्रेषणाद्धातोः, प्राकृतेर्थे णिजिष्यते // लक्ष्यम् :___ 'रामो राज्यमकास्यद् ' [ रामा० यु० 128 / 105] / अकरोदित्यर्थः / रञ्जयति वस्त्रम्, रजति इत्यर्थः / भेदयति कृत्यान् , भिनत्ति इत्यर्थः / तापयति, वाचयति, वाहयति, घातयति; तपति, बक्ति, वहति, हन्तीत्यर्थः। यद्वा प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापाराऽनुप्रवेशो णिगं विनाऽपि बुद्धयाऽऽरोपाद् बहुलं भवति // __जजान गर्भ मघवा' / इन्द्रः अजीजनत् इत्यर्थः / 'एकं द्वादशधा जज्ञे'। जनितम् इत्यर्थः / षड्मिहलैः कृषति, कर्षयतीत्यर्थः // 1. नयनान्दो' इति क्षी. त. पृ. 322 // 2. विशेषार्थिना द्र० बृहद्वृत्ति: 3 / 388 // 3. जजान गर्भमहिमानमिन्द्रः (अथर्व० 3 / 10 / 12) इति क्षीरतरङ्गिण्याम् [पृ. 322] //