________________ 256 ] धातुपारायणे चुरादनः (1) . [ 335 अथ क्षान्तः // '249 लक्षिण आलोचने ' / लक्षणं लक्षयते / अन्यत्र लक्षीण दर्शनाऽनयोः [ 9 / 152 ], लक्षयति, लक्षयते / णिचोऽनित्यत्वाद् लक्षते // अथ आत्मनेपदिन एवार्थान्तरेऽपि चुरादयः // अथ कान्तास्त्रयः // ... '250 हिष्कि 251 किष्किण हिंसायाम् ' / हिष्कयते / ते हिष्कितम् / हिक्कितम् इति तु हिकी अव्यक्ते शब्दे [11889 ] इत्यस्य // 251 किष्किण' / किष्कयते / उणादौ " काहवि०" ( उ० 729) इति उः, किष्कुः वितस्तिः / किष्किन्धा इति तु किमप्यन्तर्दधाति इति पृषोदरादित्वात् दधातेः // .. ... -- 252 निष्किण परिमाणे ' / निष्कयति / अचि निष्कः // ! ' . अथ जान्तः // . ' 253 तर्जिण संतर्जने' / तर्जयते / करणेऽनटि तर्जनी / यतु लक्ष्ये तर्जयति इति परस्मैपदं दृश्यते तथा भर्सयति, निशामयति, भालयति, कुन्सयति, कञ्चयति, निवेदयतीत्यादि; तद् स्वादौ राजुग टुभ्राजि इति पुनः भ्राजिग्रहणेनाऽऽत्मनेपदस्याऽनित्यत्वज्ञापनात् सिद्धम् / तर्ज भर्त्सने [ 1 / 156 ] तर्जति // अथ टान्तौ // 254 कटिण अप्रमादे' / आप्रदाने इत्यन्ये कूटयते / अलि कूटः / कूटण दाहे [ 9 / 293 ], अदन्तः, कूटयति // 255 त्रुटिण छेदने' / त्रोटयते रज्जुम् / डान्तोऽयमित्येके, उत्त्रोडयते तृणम् / त्रुटत् छेदने [ 5 / 123 ], त्रुध्यति, त्रुटति // अथ ठान्तः // '256 शठिण श्लाघायाम् ' / शाठयते / अचि शाठः / “णिवेत्ति" 5 / 3 / 111 इत्यने शाठना / शट इति नन्दी / शल इति कौशिकः / शठ कैतवे च [ 11222 ], शठति, शठः // . . 1. दुर्गः (क्षी. त. पृ. 295) || ...... . . /