________________ // ॐ ऐं नमः // // आचार्यपुङ्गवश्रीमद्विजय भद्रसूरीश्वरपादपनेभ्यो नमो नमः॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितं धातुपारायणम्। // अहम् // श्रीसिद्धहेमचन्द्रव्याकरणनिवेशितान् स्वकृतधातून् / आचार्यहेमचन्द्रो, विवृणोत्यई नमस्कृत्य // .. 'इह तावत् पद-पदार्थज्ञानद्वारोत्पनं हेयोपादेयज्ञानं निःश्रेयसहेतुः' इति प्रसिद्धम् / 'पद-पदार्थ ज्ञानं च नय-निक्षेपादिमिरधिगमोपायैः परमार्थतः, व्यवहारतस्तु प्रकृत्यादिमिः' इति पूर्वाचार्यप्रसिद्धा / एव सुखप्रहण-स्मरणकार्यसंसिद्धये विशिष्टानुबन्धसम्बन्धक्रमाः सहार्थेन प्रकृतयः प्रस्तूयन्ते / तत्र यद्यपि नाम-धातु-पदभेदात् 'राजा, जयति, पूर्वादेतरां, पचतितराम्' इत्यादौ त्रेधा प्रकृतिः, तथापि नामपदयोर्धातुमूलत्वाद् धातुप्रकृतिरेवैका प्रधानम् / अव्युत्पत्तिपक्षवादिनामपि व्युत्पत्तिपक्षानुसारेणैव शब्दस्वरूपनिर्णय इति तत्रापि धातुमूलत्वमेव / धातुप्रकृतिस्तु द्वेषा-शुद्धा प्रत्ययान्ता च / शुद्धा भू इत्यादिः। प्रत्ययान्ता गोपाय कामि ऋतीय जुगुप्स कण्डूय बोभूय बोम् चोरि भावि बुझ्ष 10 इत्यादिः / एषाऽपि शुद्धमूलैवेति शुद्धैवोदाहियते // 1. भू सत्तायाम् / म् इत्यविभक्तिको निर्देशः सान्त रान्तशानिरासार्थः, एवं सर्वत्र / भू इत्येषा प्रकृतिः सत्तायां वर्तते / अभूत् भूत इत्यादौ प्रयोगित्वदर्शनाद् ऊकारस्य "अप्रयोगीत्" 1 / 1 / / 37 // इति इत्सञ्ज्ञा न भवति, एवमन्यत्रापि / वर्णसमामायक्रमेण स्वरान्त-व्यञ्जनान्तधातूपदेशप्रतिपानात् पा पाने इत्यादेः प्रथमं निर्देशे प्राप्ठे वृद्धसमयानुवर्तनार्थ प्रथममस्य पाठः / यद् सदा-16 "भूवादयो धातवः" (पा० 1 / 3 / 1) इति; मजलायं च, यदाहमालिकत्वात् प्रथममस्य प्रयोगः" इति /