________________ 12: लीलाशुकमुनेः 'पुरुषकारः' (देवस्योपरि ), सायणस्य माधवीया धातुवृत्तिः, आ. गुणरत्नसरेः क्रियारत्नसमुच्चयः', श्रीहर्षकुलगणिनः 'धातुचिन्तामणिः (कविकल्पमस्योपरि), सिद्धिचन्द्रगणिनः 'धातुमञ्जरी', साधुसुन्दरगणिनः 'धातुरत्नाकरः', जिनदेवसूरेः 'क्रियाकलापः', हर्षकीतिसरेः 'धातुतरङ्गिणी' इत्यादयः बहवः धातुविवरणा उपलभ्यन्ते / (पषां आधग्रन्थसप्तकं मुद्रितम् , अन्तिमाश्चत्वारः, अद्यावधि अमुद्रिता एष आस्ते, (विशेषार्थ प्रष्टव्यः 'जैनसाहित्यका बृहद् इतिहास' भा.५)। अन्ये अपि बहवो वैयाकरणाः प्रक्रियाक्रमेण व्याकरणं कुर्वन्तो निजनिजग्रन्थेषु आख्यातविभागे धातुपाठस्य टीका निर्मितवन्तः / यथा विनयविजयमहोपाध्यायाः हैमप्रकाशमहाव्याकरणे, भट्टोजीदीक्षितः सिद्धान्तकौमुखाम् / अस्य ग्रन्थस्य प्रकाशनस्य आवश्यकता: जानन्ति विद्वांसो यद् अतीवोपयोगि इदं अन्थरत्नम् सिद्धहेमव्याकरणस्य अध्यापकानामध्येतृणां च / अस्य ग्रन्यस्य सम्पादनं पुरा जर्मनदेशीय 'जोह किर्स्ट' महोदयैः कृतम् आसीत्, 1899 खिष्टाब्दे च स प्रकाशितः अधुना स ग्रन्थ अतीवजीर्णो दुर्लभश्च जातः वैक्रमीये 2028 वर्षे जिनबिम्बप्रतिष्ठार्थ पूज्यपादाचार्यभगवन्तः श्रीमधिजयोकारसरिवर्या बेणपग्रामम् [बन सकाण्ठा जिलामध्ये] गतवन्तः / तत्रस्थभाण्डागारे मुनिश्रीहर्षविजयसम्पादितानि धातुपारायणस्य 1-112 पृष्ठानि दृष्टानि, चिन्तितं.तः, ग्रन्थोऽसौ अतीवसुन्दरः प्रकाशनार्हश्च, ततस्तेषामादेशेनास्माभिरस्य सम्पादनम् (पृ. 113 तः) प्रारब्धम् / पश्चात् 1-112 पृष्ठानां 'फोटो-ओफसेट' पद्धत्या पुनर्मुद्रणे जाते अद्यचैष प्रन्थो देव-गुरुकृपया पूर्णीभूतः / सम्पादन उपयुक्ता हस्तलिखितपतयः पा० संज्ञक प्रतिः - श्रीसङ्घवीपाडा जैन ज्ञानभण्डार (पाटण) सत्केयं तालपत्रीया प्रतिः सम्प्रति श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे पाटणनगरे वर्तते / तत्रस्थ सूच्यनुसारेण अस्याः क्रमाङ्कम् 159 वर्तते / Catalogue of the Palmleaf Mss in the Patan Bhandar, Gaekwad's Oriental Series, Baroda No. 76 इत्येदनुसारेण अस्याः क्रमाकम् 259 वर्तते; पत्राणि 1-263 / तस्या अन्ते दत्ता पुष्पिका" समर्थितं धातुपारायणमिति, संवत् 1307 वर्षे चैत्र वदी 13 भोम श्रीधीसलदेवकल्याणविजयराज्ये वाम............... पञ्चकुलप्रतिप्रन्नो श्रीचन्द्रगच्छिय श्री चन्द्रप्रभसरिशिष्यैः आचार्य श्री नेमिप्रभ............श्रीहेमचन्द्रधातुपारायणपुस्तिका लेखिता लिखिता च /