________________ 264 ] धीशान्तिनापमहाकाव्ये वणिकत्वाय, पोतवणिक्त्वाय, पोतवणिप्रपेण यावो व्यवहारायेत्येवं व्यापि निवेदितः / “सांयात्रिकः पोतवणिगि"त्यमरः / स माकन्दीकः प्रोचे, किमित्याह-सुतौ युवाभ्यां द्वाभ्यां मकराकरे समुद्रे, गमनमपि, किन्तु पुनः सायात्रिकत्वमित्यपि नोच्यते, नो नहि कार्यम् / तत्र हेतुमाह-पुरा पूर्व च वा युवयोः, यद्यस्मात् एकादशयात्राः अन्तरायविकला निर्विघ्ना आसन् , इयं खलु द्वादशोवेला द्वादश्यावृत्तिः द्वादशी यात्राप्रत्यूहेन विघ्नेन युता सोपसर्गा भवेद्, अहो इति खेदे, ततो न गमनमिति // 24 // એક દિવસે તે બન્નેએ પિતાના પિતાને વહાણથી વ્યાપાર કરવાની આજ્ઞા મેળવવા માટે જાણાવ્યું. ત્યારે પિતાએ કીધું કે હે પત્રો તમો બન્નેએ ( મગરનો ખાણ ) રૂપી સમદ્રમાં યાત્રા કરવી તમારા બનેની અગીયાર યાત્રાએ અન્તરાય થવાથી નીષ્ફલ ગઈ હતી. અને તે આ બારમી વેલાની યાત્રા પણ વિતવાલી થશે ૨૪૦ના धनस्य पर्याप्तत्वात्तदर्थमपि प्राणसंकटकरं गमनं न युक्तमित्याहसंख्यातीतमुपाजितं च बहुलं तावद्भवयां धनं, तद्दत्तं च यदृच्छया विलसतं मत्सन्निधौ तिष्ठतम् / तो तेनेति निषिध्यमानगमनी वारांनिधौ प्रस्थिता बारुह्यार्थसमीहया प्रवहणं लोभो बलीयान् यतः // 241 // भवद्भ्यो, तावदिति वाक्यालङ्कारे, सङ्ख्यातीतमसङ्ख्यं बहुलं बहुविधम् धनम् उपार्जितं दत्तश्चार्पितं याचकेभ्यः इति शेषः तत्सस्मात् अधिकस्य प्रयोजनाभावात् , मत्सन्निधौ तिष्ठतम् , यदृच्छया स्वैरितया विलसतम्, उपार्जितस्य दानभोगी अधुना कर्त्तव्यौ / तेन पित्रा इत्येवं निषिध्यमानगमनावपि तौ द्वौ भ्रातरौ अर्थस्य धनस्य समीहया इच्छया, प्रवहणं पोतमारुह्य, वारांनिधौ समुद्रे प्रस्थितौ, ननु पितुनिषेधेऽपि कथं प्रस्थिताविति चेत्तत्राह-यतः लोभो बलीयान् , लोभाभिभूतो हि निषिद्धमप्याचरतीतिभावः / / 241 // અને બીજી તમો બનેએ નાના પ્રકારનું અસંખ્ય ધન ઉપાર્જન કરી ચૂકયા છે તે તમને આપ્યું પોતાની ઈચ્છા પ્રમાણે ભોગવો ને મારી પાસે જ રહે તેનાથી આ પ્રમાણે યાત્રાનો નિષેધ કરાતા છતાં તે બને ધનની ઈચ્છાથી વહાણ ઉપર ચઢી સમુદ્ર યાત્રા માટે પ્રસ્થાન કરી દીધું કેમકે લાભ માટે બળવાન હોય છે, 241 वार्द्धर्मध्यमधिश्रिते प्रवहणे कैश्चिदिनैर्दुदिनं, संवृत्तं वियति स्थिरागमनयौरैक्याय वातो ववौ / पोतो वीचिभिराहतः क्षितिभृता संस्फाल्य विस्फोटितो, रत्नदीपमवापतुश्च फलकं संप्राप्य तौ यत्नतः // 242 // प्रवहणे पोते कैश्चिद् दिनैः वार्धेः समुद्रस्य मध्यम् अधिश्रिते प्राप्ते सति वियति आकाशे, दुदिनं मेघजं तमः संवृत्तम् "दुर्दिनं मेषजं तमः" इति हैमः / वातः महावातः, स्थिरागमनयोः