________________ [ 253 ] अथ त्रैलोक्यसुन्दरीकृतोपालम्भमाह-भद्रासन इतिभद्रासनेऽ, विनिवेश्य सान्द्र--भद्रार्थिनी राजसुताह सा स्म / . त्वया कथं नाथ ! तदा विमुक्ता, मुक्ताग्रहारा ननु मन्दभाग्या // 174 // __व्याख्या-अमुं-मङ्गलकुम्भं / भद्रासने-नृपासने,“भद्रासनं नृपासनम्” इति हैमः / विनिवेश्यउपवेश्य / सान्द्रभद्रार्थिनी-सान्द्रस्य दृढम्य वा भद्रस्य कल्याणस्य अर्थिनी अभिलाषवती / सा राजसतात्रैलोक्यसुन्दरी / आह स्म-अवोचव, किमित्याह / नाथ !-स्वामिन् ! तदा-विवाहदिने / स्वयामुक्तानाम् मौक्ति कानां अग्रहारः मुख्यहारः यस्याः सा मुक्ताग्रहारा-सद्यो विवाहिता / मन्दभाग्यात्वत्कृतत्यागादिति भावः / कथं-कस्माद्धेतोः / विमुक्ता-त्यक्ता / नन्विति-खेदेनैतत्त्वयाऽयुक्तमाचरितमिति भावः // 174 // विना त्वया नाथ ! यदन्वभूवं, दुःखं प्रवक्तुं न तदस्मि शक्ता / द्विजिह्वतादोषपरिष्कृतः स, प्रवक्तु किं नाम सहस्रजिह्वः // 175 // व्याख्या-नाथ ! त्वया विना यद्-दुःखम् / अन्वभूव-प्राप्तम् / तद् दुःखं, प्रवक्तुं, शक्तासमर्था / न अस्मि-सहस्रमुखेनापि तद्वर्णयितुं न शक्यमित्याह / सः-प्रसिद्धः / सहस्रजिह्वः-शेषनागः, द्विजिह्वतादोषपरिष्कृत:-द्विजिह्वतादोषेण सर्पाणां द्विजिह्वत्वात्कथने चैकजिह्वस्य सामर्थ्यावगमात् , कथने द्विजिह्वतादोषः, तेन हेतुना, अथ च पिशुनतादोषेण, नहि पिशुनः कस्यापि वर्णने समर्थः प्रभवतीति भावः / परिष्कृतः समन्वितः सन् / किं नाम प्रवक्तु-कथने न समर्थ इत्यर्थः / एतेन दुःखस्यात्याधिक्यमुक्तम् “पिशुनः सूचको नीचो द्विजिह्वः” इति हैमः // 17 // अथ सिंहस्य परावर्तनमाह-इतीतिइति स्वदुःखप्रतिपत्तिपूर्व स्वाभाविक वेषमियं प्रपद्य / प्रत्यर्य सैन्यैः सह तं नृवेषं, समान्य सिंह व्यसृजद् गृहाय // 176 // व्याख्या--इति-पूर्वोक्तप्रकारेण / स्वदुःखप्रतिपचिपूर्व-श्वस्य दुःखस्य या प्रतिपत्तिः कवनं तत्पूर्वम् / इयं त्रैलोक्यसुन्दरी / स्वाभाविकम्-अकृत्रिमं नीरूपं / वेष-स्वरूपं / प्रपद्य-विधाय / वं, नृवेष-पुंवेषं / सिंह, प्रत्यर्य-दत्त्वा / सम्मान्य-सत्कृत्य च / सैन्यैः सह गृहाय-चम्पापुरगमनाय / व्यस्जद-विससर्ज // 176 //