________________ 280 पञ्चग्रन्थी व्याकरणम् जामातृमातृस्वसृनप्तनेष्टृत्वष्टप्रशास्तृक्षत्तृहोतृपोतृ / इ: कीगुपान्तात् क्रमदिन्मुनिश्च नभ्रञ्जिवृञ्वस्वपणित् हनेः स्रः // 10 // घस्रश्यजो जन्पणतेरिणश्रिवीनीविपक्षीकरि भृमीसखादयः / / सार्यंगतिभ्योऽथिनुरीशिसञ्जासः थिग्नीदलेमिः कुषसे: त्सिरन्ति जूः // 11 // रश्मामिभूमिशदिरस्त्रिभूस्वदेः क्रिन्कण्मृरीच्यञ्जिशकोऽलिजुन्तिचौ / अन्तिर्भुवो धाम्यशिवृद्धृसृग्रह्यवृतोऽनिः क्षिपणिस्त्वगे निः // 12 // श्रिवहिश्रयुवशकुनिणि वियो घृणि पाणि च चूर्णिसृणी / / विनतच्छविदीदिविदीविकृविच्छविनीविव जागृचिजीविवशीविधुची // 13 / / वृद्रोश्च पातेर्डति दृबसेः क्तिन् बह्वस्यमोऽतिगमिरश्च डोडौ / डो ग्लानुदेस्तन्द्र च ई च तृ स्तः ययी पपी प्रमी च लक्ष्मीः // 14 // कापाकृदाधाशलिराचिमार्चीण्भीभ्यः क यूकाभ्रकहाकनेकः / उल्का च धूका सृकमुष्कवल्काऽनीकावृकहीकभुकोदकानि // 15 // स्रुकोल्मकस्यमिकाश्च पृथुक: कुश्च भोजहः / कृषोर्जार्वा किकवृश्चिमृषेराङ: पणेः पतेः // 16 // इद्यः स्यमो भीशीङ आनको कृत्तिक्लतेः तिक् च शिघेणिको न / क्तकनिषेः स्याद् बलिपत्त आक: श्यामाकखर्जकपिन्मन्तडिभ्यः // 17|| कीकन्नलीषो कु मृदे ऋहीका स्तस्तत्कणेस्तिन्तिडकिङ्कणौ च / स्तो जचरौ जर्जरचञ्चरौ च वुङ्क्रादितो मण्डिशलेश्चणूकः // 18 // उलूको भल्लूको मधूको जलूका समैः खो मुहे: शिखा गः पते गाङ्मदेगेंगमेर्गस्तु शृङ्गाङ्गभृङ्गजनेर्घः कचेः च्छः शकादेरटन् स्यात् // 19 // कृतकृपः कीट जटा च लोष्ठो धातुस्तु ठोऽठश्च कमो ण्ड वृकुः / ऊोर्ड नो अम् कणिमुण्गुणादेः झज्जवशेरुन्तशके: शमेढः // 20 // झट् नन्दिजीवे रुहिसाधिभासेः भूगण्डिहेम्वस्वहिमण्डियद्भ्यः अद्दोत् तुम श्याहरु हेरिनोऽत भृञादितो रञ्जिपृषेः कतस्तन् // 21 // गृवामलूपूङनदन्हसीणः तान्तो घृतं द्यूतसिते च तातः / स्यात् सूरतं च पलितं च जर्तः शंवञ्चिशय्यावसथोऽथ इष्टः // 22 // ऊथं च वृञ्जुकुषिगायुषः क्थन् रम्काषिपातृकुषितुद्वचेः स्य॒कन् / सिच्च स्पृचियूंथनिशीथगूथगो वीथपृष्कं समिथो निरूथम् // 23 // लोपो युरुन्देस्तनवीपतिभ्यां दः कम्पशेः वृन्दमथापृकुन्दौ / श्यादश्च मन्दादिरिनच् हुवस्त्यः श्यादक्षिद्रुभ्यो वृजिनाजिनं च // 24 //