________________ तृतीयोऽध्यायः चतुर्थः पादः 251 अतत्वरत् / अतस्तरत् / एवं [अपप्रथत् / अददरत् / असस्मरत् / अपस्पृशत् / अममृदत् / ] वेष्ट्यादेः वाऽन्वयः / वेष्टत् / चेष्टत् / ई च / अजीगणत् / अजगणत् / त्वरां किम् ? अतित्रपत् // (62) सनश्चेद / [3 / 4 / 6 / 27 / ] सन्नन्तस्य यत्रि च परे द्वित्वे पूर्वस्य इ स्याद् अवर्णः / पिपक्षति / तिष्ठासति / अचिक्षणत् / सनश्च किम् ? पपाठ / पापठिषते / रित् किम् ? अततक्षत् / अजजागरत् / अ किम् ? लुलूषति // (63) यण पुज्य ओः / [3 / 4 / 6 / 28 / ] सन्नन्तस्य यत्रि च पूर्वस्य उवर्ण इत् स्याद्, अण् पवर्ग जि ए अवणपरे परतः / यियावयिषति / अयीयवत् / एवं रु [रिरावयिषति / अरीरवत् / ] लू [लिलावयिषति / अलीलवत् / ] पू [पिपावयिषति / अपीपवत् / ] भू [बिभावयिषति / अबीभवत् / ] जुः सौत्रः / [जिजावयिषति / अजीजवत् ] अत एव णौ कृतं स्थानिवत् / जुहावयिषति / [अजीहवत् / ] ओः किम् ? पापचिषते / यणादौ किम् ? तृतावयिषति / ए किम् ? बुभूषति // (64) वा द्रुश्रुत्रुच्युङः पुप्लुङः / [3 / 4 / 6 / 29 / ] तथैषां वा / श्रु लघुः / दुद्रावयिषति / अदिद्रवत् / अदुद्रवत् / एवं शिश्रावयिषति / शुश्रावयिषति / सिस्रावयिषति / सुस्रावयिषति / चिच्यावयिषति / चुच्यावयिषति / पिप्रावयिषति / पुप्रावयिषति / पिप्लावयिषति / पुप्लावयिषति / ए किम् ?] शुश्रूषति / (65) हेर्हनोऽचड्यतः कुः / [3 / 4 / 6 / 30 / ] हिहनोरचनिमित्ते द्वित्वेऽतः पूर्वांशात् पर: कुः स्यात् / जिघाय / जघ्नुतः / [जिघोषति / जेघीयते / ] अचङि किम् ? प्रोजीहयत् / स्रुद्वहनः किम ? जिहननीयिषति // .. (66) ज्यये / [3 / 4 / 6 / 31 / ] अयेऽचङि चार्थात् सन्लिटोः द्वित्वे अतः परे जिः कु: / ' जिगीषति / जिगाय / औपदेशिकः किम् ? जिज्यः // (67) वा चि / [ / 4 / 6 / 32 / ] तथा / चिचीषति / चिकीषति / चिचाय / [चिकाय / ] अयेऽचङि किम् ? चेचीयते / चेकीयते // ___ (68) णौ चङ्युपान्ते त्रगृ / [3 / 4 / 6 / 33 / ] चङ्युरे णौ परतोऽन्तःसमीपस्थ ऋवर्णः चक् स्याद् वा / दिद् हुस्वार्थः / रित्त्रक्ष्विति दीर्घार्थः / कृत् / अचीकृतत् / अचिकीर्तत् / अवीवृतत् / अववर्तत् / अमीमृजत् / अममार्जत् / इररारा न स्युः / णावुत्तरार्थः / अचङि किम् ? कीर्तयति / उपान्ते किम् ? अचीकरत् // (69) घेः स्थ इत् / [ 3 / 4 / 6 / 34 / ] जिघ्रतेी चड्युपान्तेऽच् इञोऽग्वा स्यात् / स्थो नित्यं, पार्थक्यात् / अजिघ्रिपत् / अजिघ्रपत् / अतिष्ठिपत् / [अतिष्ठपत् / ] किङन्तो यङ्लुग्निवृत्त्यर्थः / अजाघ्रपत् / अतास्थपत् // (70) पीप्यः / [3 / 4 / 6 / 35 / ] पिबतेो चङि सद्विवचनस्य पीप्य निपात्यते /