________________ 238 पञ्चग्रन्थी व्याकरणम् माने / तङानिनावृत्तौ / वृत् जुहोत्यादित्यर्थः // अदादि // 69 // ___ दिवुश्रुवुखु खिद् गतौ / वेति क्रीडादौ वा दिवु / श्रुवु शोषणे च / षिवु तन्तुसन्ताने / ष्ठिवाधुदित् / ष्णसु सिद्दिच्च निराकृतौ निरसने / त्रासद् दिद् दीप्तौ / प्लुष आदे अदने / . [क्रथादयो] व्यक्ताः // 70 // त्रसी त्रसने उद्वेगे / नृती नर्तने / ईदितौ / प्लीमादि आर्द्र आर्द्रभावे / व्रीडक्षिपौ क्षेपणे / . युधव्यधौ व्यक्तौ / ईषख् खिद् गतौ / स्फुटस्तु स्फोटने // 71 // षहादि व्यक्तम् / सूक्तः पुषः पुष्टौ / शुषः शोषणे / दुषः दुष्टौ वैकृत्ये / शकन् नित् मर्षणे / व्यक्तोऽन्त्यः // 72 // ष्विदाः प्रस्वेदे आदित् / क्षुध क्षुधि बुभुक्षायाम् / शुन्धुन्वन्तः शुद्धौ शौचे / षिधुः संसिद्धौ संराद्धौ जदिद् वा / रध दृप क्रमेण हिंसाविमोचनयोः / तृप तु त्वन्तः तृप्तौ / दुहादि सूक्तं द्रोहने स्नेहने मोहने नाशने / उद्गिरणे ष्णुहर् रित् / रधादि मुहादि प्रत्याहारार्थः / एवं शसु उपशमने / क्षमूः क्षान्तौ / क्लमुः ग्लानौ / मदि मदने हर्षे / दमुः दमने उपशमने / श्रमुः श्रमे // 73 // भ्रमः भ्रमणे अतृप्तौ आकाङ्क्षायाम् / तुमुच् चित् / शमादि प्रत्याहारार्थः / उदृदीदितः / गृधुः गाये / क्रुधुः क्रुद्धौ / भृशादि जसुक्तं लोटने अध:पतने / क्षुभः क्षोभे / हषः तृषः सूक्तः चित् तोषे / क्रुधु रुष कृप् तु / त्वन्तः कोपे / लुभ्रु लोभे / तुभणभ तादृग् हिंसने, गिद् वा // 74 // [प्लुषादयो] व्यक्ताः / विस असु तु / त्वन्तः निरसने / प्रेरणे क्षेपणेऽप्ययमर्थः / [यस्वादि] व्यक्तौ / जितृष वसु क्रमेण तृषि स्तम्भे वा जित्यादुदित् // 75 / / पूषादि वृदन्तं सुगमम् / कृश तु कृशे तनूकरणे / अतङित्यतङानिन पूर्वे / वृत् पुषादिसमाप्तौ // 76-77|| ष्वादयो व्यक्ताः / ओदितश्च / ईङ् यदख् / खिद् गतौ / माङ्.माने // 78 // [प्रीत्यादयो] व्यक्ताः / दीप्यादि त्वन्तः द्योतने दीप्तौ / जनी जनने प्रादुर्भावे / सूरादि गिद् हिंसायाम् इदित् / विद सत्तायाम् / मन सृज ज्वरीः सूक्तः / मन मनने / ज्ञाने सर्जने जीर्णे / शृघु घुङ् शब्दे // 79 // क्लिशादि व्यक्तम् / किन्तु रुधोऽनो रित् / अनुरुध् कामे / पतल वेति तप का ईश्वरत्वे / तङिति पूर्वे तङानिनः / शकः तृषः सूक्तः / चित् मर्षणे / रञ्ज शप तादृग् रागाक्रोशे / सूक्तो धारणे शापे / विभाषिताः तिङ्वन्तः / वृत् दिवादि समाप्तौ / दिवादि // 80 // षुञितः जितो टुत्यन्ताः / उभयपदित्वात् किम् ? जिता वेत् / षुषुञ् वुवुञ् वृवृञादि / विशेषार्थम् / पृथक्त्वेनोक्तः च्छन्दोर्थम् / षुञ् अभिषवे / षिञ् शिञ् क्रमेण बन्धने निशामने / धुञ् कृञ् कम्पने, गिद्धिसने / चित् सूक्तम् / चिञ् चयने / वृञ् वरणे / पुरीति पूरणे प्रक्षेपणे / डुमिञ् डुजित् / स्तु बृहिदाच्छादाने उभौ तङानातङानौ ष्वादेः / तिकादयः / गितौ हिंसायाम् / चिदन्त्यार्थः // 81 //