________________ प्रथमोऽध्यायः द्वितीयः पादः सङ्ख्यानदाह्रस्वत्रयादियुव्यु धातोरवीणः श्नुभ्रवः स्त्रियो वा // 1 / 2 / 3 // वृत्तम् // (23) याम्न्यंशतः / [1 / 2 / 31 / ] नियोंऽशतः परो ङि आम् स्यात् / नियाम् / गामण्याम् स्वां स्यात् / खट्वायाम् / सर्वस्याम् / बुद्ध्याम् / नद्याम् / / (24) ङौ / [1 / 2 / 3 / 2 / ] युत् वृत्तेः / युतः परो डिर् औ स्यात् / अग्नौ / धेनौ / * (25) नरि ना / [1 / 2 / 3 / 3 / ] पुंसि ना स्याद् आटा कार्थी युतः / अग्निना / वायुना / अतिपतिना / नरि किम् ? बुद्ध्या / (26) डितो वाट् / [1 / 23 / 4 / ] प्रत्येकं उसेः स्त्रयाख्यात् स्वतः स्त्रीवृत्तेः युतः परस्य ङित आड् वाऽऽगम: स्यात् / बुद्ध्यै / बुद्धये / इष्वै / इषवे / प्रियसेन्यै / प्रियसेनये / नराय स्त्रियै वा / स्वतः स्त्री वा / स्नेहपटवे नराय / - (27) स्त्र्याख्ये युवः / [1 / 2 / 3 / 5 / ] प्रत्येकं ङसेः स्त्र्याख्या युव्वाचिनो यू ईऊकारान्तात् परस्य ङितो वा स्यात् / श्रियै / श्रिये / श्रियाः / श्रियः / श्रियाम् / श्रियि / एवं, ध्रुवै / ध्रुवे / भ्रवाः / भ्रवः / ध्रुवाम् / भ्रुवि / अतिश्रिये नराय / स्त्रियै वा / - (28) यू स्त्रयः / [1 / 2 / 3 / 6 / ] स्त्र्याख्याद् ईदूतः स्त्रिया ई, तस्यास्वपरस्य ङित आड् : नित्यं पार्थक्यात् / नद्यै / लक्ष्म्यै / वषाभ्वै / स्त्रियै / स्त्रिया किम् ? अतिस्त्रियै / अत एवान्यस्या प्रधानस्यापि यथोक्त आड्विधिः / अतिलक्ष्म्यै नराय / स्त्याख्या किम् ? ग्रामण्ये / ब्राह्मण्यै / . (29) इतिर्नुडामः / [1 / 2 / 3 / 7 / ] इतीत्युक्तपरामर्श / आडिव स्त्राख्ये युवो वा यू त्यो नित्यं परस्यामो नुडागमः स्यात् / श्रियाम् / श्रीणाम् / भ्रुवाम् / भ्रूणाम् / अतिश्रियाम् / अतिश्रीणां नराणाम् / वर्षाभूणां स्त्रीणाम् / युतोऽति स्त्रेः ह्रस्वादिति / - (30) सङ्ख्यानदाहस्वत्रयात् / [1 / 2 / 3 / 8 / ] एभ्यः परस्यामो नुट् / संख्या / चतुर्णाम् / पञ्चानाम् / षण्णाम् / सप्तानाम् / कतीनाम् / अनत् किम् ? तावताम् / चत्वारिंशताम् / आड् / खट्वानाम् / आट् किम् ? कीलालपाम् / ह्रस्व / वृक्षाणाम् / अतिस्त्रीणाम् / धेनूनाम् / मातृणाम् / रितुर्नुमं बाधते / वारीणाम् / ग्रामणीनाम् / कुलानाम् / ह्रस्वात् किम् ? ग्रामण्याम् / त्रय / त्रयाणाम् / अतित्रयाणाम् / अत एवामि त्रेः त्रयश्च / ___(31) इयुव्युर्धातोरचीणः / [ 1 / 2 / 3 / 9 / ] ड्डीयुरिवर्णश्च इयुव् स्यादजादौ / नियौ / लुवौ / नामक् / नियम् / इण / ईयतुः / धातो किम् ? कुमार्यो / स्वादौ किम् ? स्त्यर्थः / अचि किम् ? श्रीः / युः किम् ? सोमपौ / इणोऽयत्वार्थम् / (32) अनुभ्रवः / [ 1 / 2 / 3 / 10 / ] उरुव् स्याद् अचि युक्तयोगाद् धातोः संयोगात् परस्य नोः / आप्नुवन्ति / ध्रुवौ / संयोगात् किम् ? चिन्वन्ति / . (33) स्त्रियाः / [1 / 2 / 3 / 11 / ] ईरित् स्यात् / विस्त्रियै / सुस्त्रियाम् / स्त्रियतेः क्विप् / स्त्रियै नराय / वा परार्थः // 2 // 3 //