________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार-४ प्राप्तः किञ्चित् पत्तनं, तावत् मिथ्याऽभिमानेन वशीकृतस्ततो ध्यातं मया कथमेवं दुर्विध इव यामि स्वगेहं श्वशुरालयं वा ? तदत्रैव स्थित्वा पुनर्धनमर्जयित्वा गृहं यास्यामीति पुनः प्रेरितः सागरेण प्रवृत्तो नानाऽर्जनोपायेषु, परं पुण्योदयाभावात् न भवति कुत्राऽप्यर्थप्राप्तिः / कृषिकरणे भवत्यवृष्टिः, सेवायां यतस्ततः प्रहारजर्जरो भवामि, शकटवाहने प्रियन्ते वृषभाः, एवं यं यमुपायमालम्ब्य प्रवर्ते प्रत्युत स सोऽनायैव भवति / तदा दैवमवलम्ब्य स्थितः पदप्रसारिकां कृत्वा, पुनः सागरेणोक्तं- "अहो! किमेवं निश्चिन्तस्तिष्ठसि ? धनार्थिनस्तु निघ्नन्ति मातृपित्रादीनपि, कुर्वन्त्यकार्य-शतानि / ततो मया गलपाशादिभिर्व्यापादिताः पथिनः, कृतं च नानाप्रकारैः स्तेयं, क्रीडितो द्यूतं, कृतान्येवं कुकर्मशतानि / न प्राप्तस्तथापि काणवराटकः / प्राप्तश्च तत्र वध-बन्धनादि-यातनाः। इत्थं दुःखस्थोऽप्यन्तरान्तरा मैथुन-प्रेरितोऽन्त्यजादि स्त्रीषु चाटुकारान् विदधामि, परं नि:स्वत्वात् न कापि स्त्री मामभिलषति / संसारीजीवस्य हिता-ऽहितकारकस्वरूपम् / अथैकदाऽऽनन्दपुरोद्याने उत्तमसूरयः समवसृताः, हरिनृपः सपरिकरो वन्दितुं गतो, दत्ता गुरुभिर्धर्मदेशना, ततो देशनाऽन्ते पृष्टं नृपेण- "भगवन् ! अहं धनशेखरेऽतिप्रेमासक्तोभूवं, कथं च तेनाऽहं समुद्रे क्षिप्त:?' सूरिराह- "धनशेखरस्तु स्वभावेन चारुरेवाऽस्ति, परं सागर-मैथुनाभिध-कुमित्रद्वयवशात् तेनैवमकार्यमनुष्ठितं, यदा च शुद्धचित्तपुराधीश-शुभाशयराजस्य प्रधानता-देव्याः कुक्षि-सम्भवे निर्लोभता-ब्रह्मरतिनाम्न्यौ द्वे कन्ये पाणौ करिष्यति, तदा सागर-मैथुनाभ्यामसौ वियोक्ष्यते / '' इत्यादि 'श्रुत्वा पुनर्नृपेण पृष्टं- "भगवन्! कथमेवं नानाविधाः प्राणिनो भवन्तीति ?' ततो गुरुराह"शृणु राजन्! कर्मपरिणामो नृपः, कालपरिणतिश्च तद्-देवी, समस्तमपि विश्वं तयो रेव सन्ततिः / परमविवेकादिप्रधानैदृष्टिदोषभिया तयोर्दम्पत्योर्वन्ध्या-निर्बीजत्व-प्रवादः प्रवर्त्तितोऽस्ति / किञ्च एकदा सर्वजनहितकृद् यथार्थवादी सकलवस्तुतत्त्ववेत्ता सिद्धान्तनामाचार्योऽप्रबुद्धाभिधशिष्येण जीवानां सुख-दुःख-प्राप्तिकारणं पृष्टोऽवोचत्-"शृणु वत्स! अप्रबुद्ध! जीवोऽयं ज्ञानादिशक्ति-कलितश्चित्तवृत्त्यटव्यां स्वभाव-साम्राज्यं भुनक्ति तस्य च चारित्रधर्मनृपो हितकृदस्ति / सात्त्विकमानस-जैनपुरादि-नगराणि तदायत्तानि सन्ति, यतिधर्म-गहिधर्मनामानौ चारित्रधर्मस्य पुत्रौ, सम्यक्त्व-सद्बोधाभिधौ चाऽमात्यौ, सत्य-सन्तोषादयो भटाश्चैवं सर्वोऽपि चारित्रधर्मपरिच्छदः संसारिजीवस्य हितं वाञ्छति। अथ तत्र घातिकर्म-विषय-कषायादि-चौरा अपि वसन्ति / तेषु कर्मपरिणाम